This page has not been fully proofread.

न्यायकोचः ।
 
४८९
 
( बाद ० ) । मनुयाज्ञवल्क्यादयस्तु प्रकारान्तरेण परिमाणगणनं चक्रिरे ।
तत्राङ्गुलादिपरिमाणमेव वैशेषिकमते गुणविशेषत्वेन चतुर्विधत्वेन च
प्रतिपादितम् न तु गुआादिपरिमाणम् इति तारानाथतर्कषाचस्पतिराह ।
परिमाणं द्विविधम् । महत्त्वम् अणुत्वं च ( त० व० ) । प्रकारान्तरेण
तच्चतुर्विधम् । अणु महत् दीर्घम् हस्वं च ( प्रशस्त ० ) ( त० सं० )
( मु० गु० ) । तत्र अणुहवपरिमाणे परमाणुब्यणुकयोः । महद्दीर्घ-
परिमाणे त्र्यणुकचतुरणुकादो ( प्र० प्र० ) । चतुर्विधमपि प्रत्येकं द्विवि-
धम् परमं मध्यमं चेति । तत्र परमाणुत्वपरमहस्वत्वे परमाणुमनसोस्तिष्ठतः ।
मध्यमाणुस्वमध्यमह स्वस्त्रे द्यणुके तिष्ठतः । परममहत्त्वपरमदीर्घस्त्रे गग-
नादौ तिष्ठतः । मध्यममहत्त्वमध्यमदीर्घत्वे घटादौ तिष्ठतः इति (सि० च १
पृ० १७ ) । पुनश्च चतुर्विधमपि परिमाणं द्विविधम् । नित्यम् अनित्यं
च । तत्र नित्यगतं नित्यम् । अनित्यगतमनित्यम् । तत्र अनित्यम्
आश्रयनाशान्नश्यति ( बै० ७११११८-१९ ) ( प्रशस्त ० ) । अनित्ये
त्रिविधम् । संख्याजन्यम् परिमाणजन्यम् प्रचयजन्यं च । तत्राद्यम्
परमाणुद्वित्वजन्यं द्यणुके । ह्यणुकबहुत्वजन्यं च त्र्यणुके । द्वितीयम्
कपालपरिमाणजन्यं घटपरिमाणम् । तृतीयम् तूलावयवसंयोगजन्यं
लो०
 
तूल पिण्ड परिमाणम्
११० - ११४ )
 
(बै० ७/११८-२५)
 
( भा० प०
 
0-
( प्रशस्त ० ) ( सि० च० १ पृ० २१ ) ( त०
 
कौ 10 ) । अयं तूलावयषसंयोगश्च शिथिल इत्युच्यते ( भा०प०
श्लो० ११३ ) । अत्रायं संग्रहः । परिमाणं चतुर्विधम् । अणु
महत् दीर्घम् हस्वं च । तत्र महत् द्विविधम् । नित्यम् अनित्यं
च । नित्यम् आकाशकालदिगात्मसु परममहत्त्वम् । अनित्यम् व्यणुका-
दावेव । तथा अण्वपि द्विविधम् । नित्यम् अनित्यं च । परमाणुमनः सु
पारिमाण्डल्यं नित्यम् । अनित्यं द्यणुक एव । कुवलामलकबिल्वादिषु
महत्स्वपि तत्प्रकर्षभाषाभाषमपेक्ष्य भाक्तोणुव्यवहारः । दीर्घत्वहस्वस्त्रे
सूत्पाथमहत्वाणुस्वैकार्थसमवेते । समिदिक्षुवंशादिष्वजसा दीर्घेष्वपि तत्प्र
फर्षभावमपेक्ष्य भक्तो हस्वव्यवहारः । अनित्यं चतुर्विधमपि संख्या-
परिमाणप्रन्यययोनि । तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना द्यणुकेषु बहुत्वसंख्या
६१ न्या० को०