This page has not been fully proofread.

त्पत्तिरिति ( बात्स्या० ३।२।१६) । परिणाम त्रिविधः प्रसिद्धः । धर्म-
लक्षणावस्थाभेदात् ( सर्व० सं० पृ० ३५३ पात ० ) । अथवा सतो
द्रव्यस्य पूर्वगुण निवृत्तौ गुणान्तरोत्पत्तिः ( प्रादुर्भावः ) । यथा पयंसः
परिणामो दधि इति (गौ० दृ० ३।२।१६ ) ( बाल्स्या० ३।२।१६ ) ।
विद्यमानस्य क्षीरस्य पूर्वरसतिरोभावोम्लरसात्मकगुणान्तरस्याविर्भावात् इति
( गौ० वृ० ३/२/१६ ) । नैयायिकास्तु अत्र परिणामो विनाश एव
इत्याहुः । यद्वा प्रकृतेरन्यथाभावो विकारः । अत्र अन्यथाभावश्च प्रक-
त्युच्छेदेन प्रकृतेर्गुणान्तराधानेन वा । यथा मृदादेर्घटादिरूपेण काष्ठादे-
र्भस्मादिना (वाच०) । यथा परिणामतापसंस्कार::० (पात● पाद●
२ सू० १५) परिणामतः सलिलवत् (सां० का० १६) इत्यादौ
इत्याहुः । यथा हि बारिद विमुक्तमुदकमेकरसमपि तत्तद्भूमि विकारानासाद्य
नारिकेलतालीबिल्व चिरबिल्वतिन्दुकामलक कपित्थफलरसतया परिणामात्
मधुराम्लतिक्त कटुकषायतया विकल्पते एवम् एकैकगुणसमुद्भवात् प्रधानं
गुणमाश्रित्याप्रधानगुणा: परिणामभेदान् प्रवर्तयन्ति ( सांख्य० कौ०
लो० १६ ) । मायावादिनो वेदान्तिनस्तु पूर्वरूपपरित्यागे सति नाना-
कारप्रतिभासः । यथा क्षीरस्य दधिप्रतिभासः इत्याहुः । मायावादिमते-
त्रायं विवेको ज्ञेयः । परिणामो नाम उपादानसमसत्ताककार्यापत्तिः ।
विवर्तो नाम उपादान विषमसत्ताक
कार्यापत्तिः इति ( वेदा० प०
परि० १ पृ० २२ ) । ३ शेष: ( अन्त्यावस्था ) । यथा परिणामे-
भृतोपमम् (गीता० अ० १८ लो० ३७ ) इत्यादौ ।
लंकारविशेषः इत्यालंकारिका आहुः ।
परिनिष्ठा-१ अनन्यवृत्तित्वम् । २ पर्यवसानम् ( सांला० भाष्य
१९६८ ) । यथा पारंपर्येप्येकत्र परिनिष्ठा ० ( सां० सू० अ० १
सू० ६८ ) इत्यादौ ।
 
४ अर्था-
परिनिष्ठितत्वम् --अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वम् । निहते
तिङन्तादावव्याप्तिषारणायाप्रवृत्तेति । वैकल्पिकेडाग मोदेश्यताष च्छेदका-
क्रान्ते सेद्धेत्यादावव्याप्तिवारणाय नित्येति ( शब्दे० शे० पृ० ६९ )