This page has not been fully proofread.

न्यायकोचः ।
 
६. पूजनम् । यथा परिचरति इति । ७ बर्जनम् । यथा परि त्रिगर्तात्
इति । ८ मर्यादा । यथा परिच्छिद्यते वासः इति । ९ आच्छादनम् ।
यथा परिदेवनम् इत्यादौ ( गण० टी० ) । १० व्याधिः । ११ शेषः ।
१२ उपरमः । १३ संतोषः । १४ संतोषभाषणम् इत्यादि (बाच० ) ।
अस्य परि इत्यव्ययस्यार्थविशेषेणोपसर्गत्वं कर्मप्रवचनीयत्वं च यथायथं
शैषम् । अस्यार्थविशेषद्योतकत्वमेव न तु बाचकत्त्रमित्यपि विज्ञेयम् ।
परिचय: -१ ज्ञातस्य पौनःपुन्येन ज्ञानम् ( वाच० ) । २ सर्वतबयनम्
इति काव्यज्ञा आहुः (माघ ० २/७५) ।
 
-
 
परिचायकम् - १ तदघटकत्वे सत्यर्थविशेषज्ञापकम् । यथा शब्दगुणकत्व-
रूपाकाशलक्षणे गुणः परिचायकः । यथा वा तत्तद्धर्मावच्छिन्न निरूपित
विषयितान्यतमविषयिता निरूपकतावच्छेदकधर्मवत्त्वरूपे हेत्वाभासलक्षणे
तत्तद्धर्मावच्छिन्ननिरूपितत्वं विषयितानां परिचायकम् ( ग० हेत्वा ०
सामान्यनि ०
(० पृ० ३१ ) । २ उपलक्षणम् इति केचिद्वदन्ति ।
परिच्छित्तिः - अनुभवः (कु० टी० ४/५ ) ।
 
-
 
-
 
परिच्छेद: - १ ज्ञानम् ( चि० २ ) । यथा वाक्यार्थसामानाधिकरण्येन
संज्ञानिमित्तपरिच्छेदः इत्यादौ । २ अवधारणम् । ३ अवधिः ।
४ सीमा । ५ परिमाणम् । ६ ग्रन्थस्य संधिविशेषः । अत्रोच्यते ।
सर्गवर्मपरिच्छेदोद्धाताध्यायाङ्कसंग्रहाः । उच्वास परिवर्तव पटलं
काण्डमस्त्रियाम् ॥ स्थानं प्रकरणं पर्वाहिकं च ग्रन्थसंधयः इति
( त्रिकाण्ड ० ) । एवमन्येपि पाद लम्बुक तरङ्ग स्तबक प्रपाठक इत्या-
दयोपि यथायथं प्रन्थसंधय ऊह्याः । तत्र काव्ये सर्गः । कोशे वर्गः ।
अलंकारे परिच्छेदोकसौ । कथायामुद्रातः । संहितापुराणादाबध्यायः ।
नाटकेकः । तत्रे पटलम् । ब्राह्मणे काण्डम् । इतिहासे पर्व । भाष्ये
आह्निकम् इति ( वाच० ) ।
 
परिणामः -- १ जीर्णता (पाकः ) ( सि० च० ) ( नील० ) । यथा
भुक्तस्य परिणामहेतुरौदर्यम् तेजः (त० सं० ) इत्यादौ । २ सांख्याः
पातकला परिणामो नाम अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरो
 
-