This page has not been fully proofread.

POE
 
-
 
परार्थानुमानम् – ( अनुमानम् ) १ [क] न्यायप्रयोज्वानुमानम् ( न्या०
बो० २ पृ० १५) (चि० २ पृ० ७६ ) । यथा परसमवेतानु-
मितिकरणं लिङ्गपरामर्श: परार्थानुमानम् । अत्र परस्य मध्यस्थस्वार्थः
प्रयोजनं साध्यानुमितिरूपं मध्यस्थसंशय
निवृत्तिरूपं वा यस्मात् इति
व्युत्पत्तिद्रष्टव्या ( नील० २ पृ० २१ ) । [ख] येन परं प्रतिपादयति
तत् परार्थानुमानम् इति ( न्या० वि० परि० २ पृ० २१)।
[ग] पञ्चावयवेनैव वाक्येन संशयितविपर्यस्ताव्युत्पन्नानां परेषां
निश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् । अथावयवाः पुनः प्रतिज्ञा-
पदेशनिदर्शनानुसंधान प्रत्याम्नायाः इति ( प्रशस्त ० २ १० २८ ) ।
२ पञ्चावयववाक्यम् ( नील० २ पृ० २२) । तथा चोक्तम् ।
परार्थानुमानं शब्दात्मकम् । स्वार्थानुमानं तु ज्ञानात्मकम् (न्यायविन्दु
टी० प० २ पृ० २१ ) । अयं भावः । तस्य शब्दात्मकस्वेपि अनु-
मानविषयत्वेन अविनाभावोपनायकत्वेन वानुमानत्वम् गौणम् इति
विज्ञेयम् । परार्थानुमान प्रयोजके पञ्चावयवषाक्ये परार्थानुमानशब्दस्यौप-
चारिकः प्रयोगः इति ( नील० २ पृ० २२ ) । अनेन प्रतिपादिता-
लिङ्गात्परोप्यग्निं वह्निमान् घूमादित्यादौ प्रतिपद्यते ( त० सं० ) । पथा
यत्तु कश्चित्स्वयं घूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयवोपेत मनुमान-
वाक्यं प्रयुङ्के तत् परार्थानुमानम् ( त० भा० २ प्रमाण० १० ११)
( त० सं० ) इत्यादौ पर्वतोग्निमान् धूमवत्त्वात् यो यो घूमवान्स
सोग्निमान्यथा महानसः तथा चायम् तस्मात्तथा इति पञ्चावयववाक्यं
( प्रतिज्ञा दिसमुदायः ) परार्थानुमानम् (त० सं० ) ( नील० २१० २२) ।
अत्र परस्य प्रतिवादिनोर्थो निवृत्तिर्यस्मात् इति व्युत्पत्तिर्दृष्टव्येति केचित् ।
परावरणम् – शूर्पेण तण्डुलानां कणेभ्यो विवेचनम् ( जै० न्या० अ० ५
पा० २ अधि० ७)।
 
व्याप्तिः ।
भूषणम् ।
 
यथा परिष्करोति इति । ५ आश्लेषः । यथा परिष्यजते इति ।
 

 
परि - (अव्ययम्) १ समन्ततो भावः । यथा परिभ्रमति इति । २
यथा परिणतः इति । ३ दोषकथनम् । यथा परिषादः इति । ४