This page has not been fully proofread.

न्यायकोश ।
 
निरूपितसंबन्धविषयतानिरूपितपक्षताब च्छेदकावच्छिन्नविषयतानिरूपक-
ज्ञानं लभ्यते । ज्ञानपदं निश्चयपरम् । व्यातिविषयतानिरूपितविषयता
च व्याप्तिघटकपदार्थविषयतानिरूपिता बोध्या । तेन भ्रमप्रमासाधारण्य-
निर्वाह: इति ( वाक्य० २ पृ० १३) इत्याहुः । अत्र व्याप्तिविशिष्टे
पक्षधर्मता व्याप्तिविशिष्टपक्षधर्मता तज्ज्ञानम् इति सप्तमीतरपुरुषानीकारे
व्यभिचारिलिङ्गकानुमितौ घूमवान्यरित्यादौ व्याप्ति विशिष्टपक्षधर्मताज्ञान-
जन्यत्वाभावेनाव्याप्तिः । अतः व्याप्ति विशिष्टपदस्य व्याप्तिविषय केल्यर्थम-
वलम्ब्य ज्ञानान्तपदेन कर्मधारयोजीकार्य ( नील० २ पृ० २०)
(दीषि० २ पृ० ४) । अत्रेदं बोध्यम् । अनुमितौ व्याप्तिज्ञानं करणम् ।
परामर्शो व्यापारः । तथाहि । येन पुरुषेण महानसादौ घूमे बहेर्व्याप्ति
गृहीता पश्चात्स एव पुरुषः कचिरपर्वतादावविच्छिन्नमूलामभ्रंलिहां
घूमलेखां पश्यति । तदनन्तरं घूमो वहिष्याप्यः इत्येवंरूपं व्याप्तिस्मरणं
तस्य भवति । तस्माच्च वहिव्याप्यघूमवानयम् इति ज्ञानं भवति । स एव
परामर्श: इत्युच्यते । तदनन्तरम् पर्वतोयं वह्निमान् इति ज्ञानं जायते ।
तदेवानुमितिः इति (मु० २ पृ० १३५ ) ( त० मा० प्रमाण ०
पृ० ११) । परामर्शो द्विविध पक्षे व्याप्यः इति पक्षप्रकारको व्याप्य
विशेष्यकः पक्षो व्याप्यवान् इति पक्षविशेष्यको व्याप्यप्रकारकश्च ।
तत्राद्यो यथा पर्वते वहिव्याप्यो धूमः इति ज्ञानम् । द्वितीयो यथा
वह्निव्याप्यधूमवान् पर्वतः इति ज्ञानम् । अत्रेदं बोध्यम् । पक्षे व्याप्यः
इति परामर्शात् पक्षे साभ्यम् इत्याकारिकानुमितिरुत्पद्यते । पक्षो व्याप्य-
वान् इत्याकारकपरामर्शात्तु पक्षः साध्यवान् इत्याकारिकानुमितिरुत्पद्यते
इति प्राञ्चो नैयायिका आहुः । नव्यनैयायिकास्तु द्विविधादपि परामर्शात्
पक्षः साध्यवान् इत्याकारिका पक्षमुख्यविशेष्यिकैवानुमितिरुत्पद्यते इति
प्राहुः (मु० २ पृ० १३६ ) । २ विवेचनम् । तच्च युक्त्या श्रुतार्था-
बधारणम् इति केचिदाहुः । ३ गुरुवाक्यतात्पर्यनिर्णायको विचार:
( सां० प्र० मा० ४।१७) । यथा नोपदेशश्रवणेपि कृतकृत्यता परा-
मर्शादृते विरोचनवत् ( सां० सू० अ० ४ सू० १७) इत्यादौ इति
सांख्या आहुः ।
 
1
 
A