This page has not been fully proofread.

न्यायकोशः ।
 
अत्रेदमबधेयम् । वहिव्याप्यघूमवान् पर्वतः इति शाब्दपरामर्शानुरोधेन
व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानत्वेनैव (व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेन)
परामर्शस्यानुमितिकारणत्वमङ्गीकार्यम् । न तु मीमांसकमतमनुरुष्य व्या-
प्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्रेन कारणत्वं स्वीकार्यम् इति
 
४७५
 
( चि० २ पृ० ३४ ) (मु० २ पृ० १३७ - १३८ ) ( न्या०सि०
दी० पृ० ४८ ) । अत्रेदमधिकं बोध्यम् । परामर्श एवानुमितौ कारणम् ।
न तु परामृश्यमानं लिङ्गम् । अतीतानागतधूमादिज्ञानेप्यनुमितिदर्शनात् ।
तदानीं लिङ्गाभावादनुमित्यनुपपत्तिः इति ( चि० २ पृ० ४३-४४ )
( मु० २ पृ० १३५ - १३६ ) । [ख ] व्याप्तिविशिष्टपक्षधर्मता-
ज्ञानम् । यथा पर्वते घूमेन वह्निसाधने वह्निव्याप्यघूमवानयं पर्वतः इति
ज्ञानम् ( त० सं० ) । अत्र विग्रहः । व्याप्तिविशिष्टं (व्याप्तिप्रकारकम् )
यत् पक्षधर्मताज्ञानम् इति । तावत्पदार्थानां तथाविध परस्परोपलेषावगाहि-
स्वमात्रं विवक्षितम् ( दीधि ० २ पृ० ५ ) ( न्या० बो० २ पृ० १३ )
( त० दी० २ पृ० २०) । केचित्तु व्याप्तिविशिष्टं च पक्षधर्मश्चेति
द्वन्द्वाश्रयणाद्व्याप्तिविशिष्टत्वपक्षधर्मत्वावगा हिज्ञानत्वं लभ्यते । पदार्थयोर-
भेदेपि पदार्थतावच्छेदक मेदेनैव प्रमाणप्रमेयेत्यादिसूत्रेन्यत्र च द्वन्द्व-
दर्शनात् । विशिष्टपदस्य धर्मपरतया वा व्याप्तिवैशिष्ट्यपक्षधर्म-
तयोर्लाभात् इत्याहुः ( दीधि ० २ पृ० ४ ) । कर्मधारयश्च व्याप्ति विशिष्टं
च तत् पक्षधर्मताज्ञानं च इति । अत्र विशिष्टपदस्य प्रकारतानिरूपक-
परत्वात् पक्षधर्मताया ज्ञानम् इत्यत्र षष्ठ्या विषयत्वबोधनात् पक्षधर्मता-
पदस्य संबन्धार्थकत्वात् कर्मधारय समासेन समस्यमानपदार्थयोरभेदसंसर्ग-
लाभाञ्च व्याप्तिप्रकारकामिन्नं यत् पक्षसंबन्धविषयकज्ञानम् तत् परामर्श:
इति लम्यते ( न्या० बो० २ पृ० १३ ) । अन्ये तु वैशिष्ट्यं विषयता ।
पक्षधर्म: पक्षसंबन्धी । तस्य भावः पक्षधर्मता । पक्षसंबन्ध इति यावत् ।
तस्या ज्ञानम् । व्याप्तिविशिष्टं च तत् पक्षधर्मताज्ञानं चेति कर्मधारयः ।
पक्षधर्मता विषयिताविशिष्टे व्याप्तिविषयिताभाने तन्निरूपितविषयतयोरपि
परंपरया निरूप्यनिरूपकभावः संबन्धो भासत इति व्याप्तिविषयता-