This page has not been fully proofread.

न्यायकोचः ।
 
कृष्णः इति वलमीयाः । परमेश्वरः इति पातजला: । बुद्धः सर्वज्ञो वा
इति बौद्धाः । अर्हन्नित्यार्हताः । पराख्यः शब्द एव इति शाब्दिकाः ।
काल एव इति ज्योतिषज्ञाः । लोकव्यवहारसिद्ध एव परमात्मा इति
चार्वाका: । विश्वकर्मा इति कारव उपासते । तत्र नित्येश्वरं न मन्यन्ते
सांख्या आईताश्चार्वाकाच ( कु० टी० ११२) । न्यायनये परमात्म-
न्यष्टौ गुणा वर्तन्ते । एकत्वसंख्या परममहत्परिमाणम् एकपृथ-
क्त्वम् संयोगः विभागः बुद्धिः इच्छा प्रयत्नश्चेति ( मा०प० श्लो० ३४ ) ।
अपरिमिता अप्राकृता ज्ञानानन्दादयो गुणाः परमात्मनि सन्ति इति
माध्वा जगुः । परमात्मा गुणशून्य एव इति मायावादिनो मन्यन्ते ।
परमापूर्वम् –(अपूर्वम् ) [ क ] यत्र स्वर्गादिफलं प्रति दर्शपूर्णमासादि-
जन्यत्वेन जनकत्वम् तत्परमापूर्वम् । यथा दर्श पूर्णमासाभ्यां यजेत स्वर्ग-
कामः इत्यादौ प्रधानविधिबोधितं दर्शपूर्णमासात्मकयागद्वयजन्धमपूर्वम्
( दि० गु० पृ० २३५ ) (चि० ४ ) ( मू० म० ) । [ ख ]
कलिकापूर्वजन्यः स्वर्गादिफलसाधनमपूर्व विशेषः । अत्र परमापूर्व वाच्यम्
कलिका पूर्वाणि तु कल्प्यानि इति मीमांसकानां सिद्धान्तः ( त०
प्र० ख० ४ पृ० ११४ ) । कलिकापूर्व प्रदर्शितं प्राक् (पृ० २१७)।
परमेश्वरः –क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः खेच्छया निर्माणकायम-
घिष्ठाय लौकिकवैदिकसंप्रदायप्रवर्तकः संसाराद्वारे तप्यमानानां प्राण-
भृतामनुग्राहकश्च ( सर्व० सं० १० ३३३ पातञ्ज० ) ।
परस्परम् – अन्योन्यशब्दवदस्यार्थोनुसंधेयः ( ल० म० ) ।
परस्मैपदम् - ( तिङ् ) [ क ] लः परस्मैपदम् (पा० १।४।९९ ) ।
अत्र व्युत्पत्तिः । परस्मै परोद्देशार्थफलकं पदम् इति ( अलुक्समासः )
(बाच ० ) । परस्मैपदं च तिप् तस् झि इत्यादि नवविधम् । [ख]
क्यजन्तधातोरर्थस्य स्वार्थे कर्तृत्वेन्वयबोधनक्षमं यादृशमाख्यातम् तत्
परस्मैपदम् । यथा पुत्रीयती व्यादौ परस्मैपदम् ( तिप् ) । घातिता घाति-
तारौ इत्यादौ आत्मनेपदानां निरुक्ताख्यातत्वेपि तदन्यत्वेन विशेषणान
तत्रातिष्याप्तिः । अत्र पुत्रीयतीत्यादावेव पुत्रादीच्छाकर्तृत्वमाश्रयत्व-
६० न्या० को ●