This page has not been fully proofread.

तच्छरीरस (इच्छाप्रयुक्तस्य ) जननसंभवात् । अत एव चतुर्भुज-
त्वादिश्रवणं संगच्छते इति । परमाणव एवेश्वरस्य शरीरमिति केचिदाडुः ।
आकाशमेव शरीरमित्यपरे मन्यन्ते । ईश्वरः सर्गादौ शरीरद्वयम् (प्रयोज्य-
प्रयोजकदृद्धशरीरद्वयम् ) परिगृह्य व्यवहरति इति परे जानन्ति ।
संसारिणामदृष्टवशादीश्वरस्य शरीरम् तच ब्रह्मविष्णुशिवात्मम् इस्यन्ये
ब्रुवन्ति । भूतावेशन्यायेनेश्वरस्य शरीरम् इत्पपरे मेनिरे । ईश्वरः शरीर-
रहित एव । परं तु संसारपकनिमग्नानज्ञानिन उद्दिधीर्षुर्लीलाविग्रहं दधाति
इतीतरे प्रजल्पन्ति । जीवा एवेश्वरस्य शरीरम् इति रामानुजीयाः ।
अप्राकृतं सच्चिदानन्दाद्येव शरीरम् इति मतप्रवर्तकैकशिरोमणयो मध्या-
चार्याः प्राहुः । क्केशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय
संप्रदायप्रथोतकोनुग्राहकश्च इति पातञ्जला: संजगदिरे । [ ख ] शरीर-
निरपेक्षज्ञानवान् ( प्र० प्र० ) । यथा स्वर्गापवर्गयोर्मार्गमामनन्ति मनी-
षिणः । यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ ( कु० स्त० १
लो० २ ) । परमात्मा परं ब्रह्म निर्गुणं प्रकृतेः परः । कारणं कारणानां
च श्रीकृष्णो भगवान् स्वयम् ॥ ( ब्रह्मवै० पु० अध्याय २३ ) । उत्तमः
पुरुषस्स्वन्यः परमात्मेत्युदाहृतः ( गीता० १५/१७ ) । ब्रह्मेति परमात्मेति
भगवानिति शब्धते ( भाग० १ । २।११ ) इत्यादौ परमात्मा । [ ग ]
नित्यज्ञानादिमान् ( त० कौ० ) । सच गुणविशिष्टमात्मान्तरमीश्वरः
( वात्स्या० ४।११२१ ) । ईश्वर एक एव ( त० सं० ) । माया-
बादिवेदान्तिनस्तु मायावच्छिन्नचैतन्यमीश्वरः स एव जीवानामुपास्य-
त्वेन देशितः इत्याहुः । कर्मैत्र इति मीमांसकाः समुपासते । वेदोक्त-
कर्मणः फलदातेश्वरः इति मीमांसकैकदेशिनः । आदिविद्वान् सिद्धः
इति कापिलाः । लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रः इति महापाशुषताः ।
निराबरणः इति दिगम्बराः । यावदुक्तोपपन्नः ( कर्ता ) इति नैयायिकाः ।
शिवः इति शैवाः । पुरुषोत्तमः इति वैष्णवाः । पितामहः इति
पौराणिकाः । यज्ञपुरुषः इति याज्ञिकाः । विशुद्धं चैतन्यम् इति माया-
वादिनः । ब्रह्मशब्दवाच्यः गुणपरिपूर्णः विष्णुः इति माध्याः । द्विभुजः