This page has not been fully proofread.

न्यायकोकः ।
 
कर्तृत्वम् ( सि० च० १ पृ० १०) । अथवा नित्यज्ञानादिमत्त्वेन
सर्वोत्कृष्टत्वम् ( त० प्र० १ १० ४ ) । ईश्वरस्य तज्ज्ञानादेर्नित्यत्व-
मित्यम् । सर्गाद्यवसरे परमाणुना द्व्यणुकं करिष्यामि इति ज्ञानस्यावश्य-
कत्वेन तदुत्पादकशरीरादिकारणकलापस्य तदानीं व्यतिरेकेण तस्य नित्य-
त्वमुररीकुर्मः । एवम् ईश्वरेच्छाकृत्योरपि नित्यत्वम् ( सि० च० १
पृ० १० ) । परमात्मलक्षणं चेश्वरत्वम् । तच्च नित्यज्ञानाद्यधिक-
रणत्वम् ( त० दी० ) (सि० च० १ पृ० १० ) ( राम० ) ।
अत्रादिशब्देनानन्दो गृह्यते । केचित्तु श्रुतिस्थानन्दपदं दुःखाभावपरम्
इत्याहुः । परमात्मसखे प्रमाणम् अनुमानम् । तच क्षिव्यङ्करादिकं
कर्तृजन्यं कार्यत्वाद्धटवत् इति । क्षित्यादिमहाकार्यान्यथानुपपस्या स
स्वीक्रियते ( प्र० प्र० ) । तदुक्तम् । कार्यायोजनघृत्यादेः पदात्
प्रत्ययतः श्रुतेः । वाक्यास्संख्याविशेषाञ्च साध्यो विश्वविद्व्ययः ॥ इति
( कु० ५/१ ) । संज्ञाकर्म त्यस्मद्विशिष्टानां लिङ्गम् । प्रत्यक्षप्रवृत्तत्वात्
संज्ञाकर्मण: (वै० सू० २११/१८- १९ ) । तदर्थ चाह । क्षिव्यङ्करा-
दिकं कार्य स्वर्गापूर्वादि नाम च । लिङ्गमीश्वरसद्भावे काणादाः संप्र-
चक्षते ॥ ( त० व० आ० श्लो० ९७ पृ० १५५ ) । अधिकं तु
न्यायकन्दल्याम् अनुमानचिन्तामण्यादौ च द्रष्टव्यम् । किंच सर्गादौ
व्यवहारान्यथानुपपत्तिरेवेश्वरसत्रे मानम् । यः सर्वज्ञः एकः स एव
चास्माकमीश्वरः ( न्या० म० ४ पृ० ५ ) ( सि० च० १ पृ० ११) ।
अत्र द्यावाभूमी जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता यः
सर्वज्ञः स सर्वविद्यस्य ज्ञानमयं तपः इत्याद्या आगमा अपि प्रमाणत्वेना-
नुसंधेयाः । अत्र कार्योत्पादने मतमेदाः प्रदर्श्यन्ते । शरीरमन्तरेणै-
बेश्वरेण मन्त्रादिवत्कार्योत्पादनम् इति केचिन्नैयायिकाः संगिरन्ते । अत्र
सूत्राणि ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । न पुरुषकर्माभावे
फलानिष्पत्तेः । तस्कारितत्वादहेतुः (गौ० ४।१।१९ - २१ ) इत्यादीनि ।
शरीरहेत्वदृष्टाभावात्परमात्मा शरीररहित एवास्ति । अन्ये तु नैयायिका
इत्थमाडुः । परमात्मा शरीरी । पुरुषादृष्टेन कान्ताशरीरस्येवास्मदीयादृष्टेन