This page has not been fully proofread.

न्यायकोशः ।
 
परमाणु: - १ मूर्तत्वे सति निरवयवः ( त० कौ ० ) । स च जन्यद्रव्या-
वयवः क्रियावान् अतीन्द्रियः निरवयवः नित्यश्चेति नैयायिकवैशेषिकाणां
सिद्धान्तः । अत्र सूत्रम् न प्रलयोणुसद्भावात् ( गौ० ४/२/१४ )।
इति । परमाणुनामुत्पत्तिं नाशं च स्वीकुर्वन्ति क्षणभङ्गुरवादिनो बौद्धाः ।
( दि० १ पृथिवी० पृ० ६७-६८ ) । भूतत्वादि परमाणोर्लक्षणमिति
सांख्या आहुः ( गौ० वृ० ४।१।३१ ) । न्यायवैशेषिकनये परमाणु-
सद्भावे प्रमाणमुच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतमं यद्रज उपलभ्यते
तत् सावयवम् चाक्षुषद्रष्यत्वात् पटवत् इति । त्र्यणुकावयवोपि सावयवः
महदारम्भकत्वात् तन्तुषत् इति । यो द्यणुकावयवः स एव परमाणुः ।
स च नित्यः । कार्यत्वेनवस्थाप्रसङ्गात् । असमवेतभावकार्योत्पत्तिप्रसङ्गाच
तथा च मेरुसर्षपयोरपि तुल्यत्वप्रसङ्गः इति ( त० दी० १ पृ० १० )
( मु० १ पृ० ६८-६९ ) । परमाणुश्च परं वा त्रुटे (गौ० ४।२।१५ )
इति ज्ञेयः । त्रुटेः परं यदतिसूक्ष्मं तत्परमाणु: । वाशब्दोषधारणे ।
अथवा त्रुटेरवयवस्तदवयवो वा परमाणुरिति विकल्पार्थो वाशब्दः । यद्वा
त्रुटे: परं सूक्ष्मं परमाणु: । त्रुटावेव वा विश्रामः इति विकल्पोभिमतः
( गौ० वृ० ४/२/१५ ) । इदं च नवीनमतम् ( दि० ११० ६९ ) ।
अवयवविभागस्यानवस्थाना द्रव्याणामसंख्येयत्वात्रुटिनिवृत्तिरिति (वात्स्या
४।२।१५ ) । स चायमल्पतरप्रसङ्गो यस्मान्नाल्पतरमस्ति यः
परमोल्पस्तत्र निवर्तते । यतश्च नाल्पीयोस्ति तं परमाणुं प्रचक्ष्महे इति
( वात्स्या० ४/२/१४ ) । यथा जालसूर्यमरीचिस्यं यत्सूक्ष्मं दृश्यते
रजः । तस्य षष्ठतमो भागः परमाणुः स उच्यते ॥ इति ( वाक्य ) ।
चरमस्तु विशेषाणामनेकासंयुतः सदा । परमाणुः स विज्ञेयो नृणामैक्य-
भ्रमो यतः ॥ इति बादरायणाचार्या आहुः ( भाग० ३।१२।१ ) ।
२ परमाण्ववच्छिन्नकालविशेषः । यथा स काल: परमाणुर्वै यो मुङ्क्ते
परमाणुताम् ( भाग० ३।११।५ ) इत्यादौ ।
 
परमात्मा – (आत्मा) [क] सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वानु
भावी ( वात्स्या० ११११९ ) । परमत्वं छात्र प्रकृतेः सृष्टिस्थितिलय-