This page has not been fully proofread.

न्यायकोशः ।
 
● त्रयाणां समवाय्यसमवायिनिमित्तानां विनाशादपि यथा यदापेक्षाबुद्धि-
रुत्पयते तदैव पिण्डावयवे कर्म । ततो यस्मिन्नेव काले कर्मणावय-
वान्तराद्विभागः परत्वस्योत्पत्तिः तस्मिन्नेव काले पिण्डेपि कर्म ।
ततो विभागात् पिण्डारम्भकसंयोगविनाशः पिण्डकर्मणा च दिक्-
पिण्डविभागः तदैव सामान्यबुद्धेश्वोत्पत्तिरित्येकः कालः । ततः
संयोगविनाशात् पिण्डनाशः । विभागाच दिक्पिण्डसंयोगविनाशः ।
सामान्यज्ञानादपेक्षाबुद्धेर्विनाशः इत्यतः युगपत्रयाणां समवाय्य-
समवायिनिमित्तानां विनाशात् परत्वस्य
( प्रशस्त ०
 
विनाश: इति
 
१० २१ २३ ) । २ [क] प्रतिपादकेच्छाविषयत्वम् ( चि० ) ।
तच शाब्दबोधप्रयोजकं तात्पर्यापरपर्यायम् । यथा हरिशब्दः सिंहपर:
इत्यादौ । यथा वा सैन्धवमानयेत्यादौ भोजनसमये सैन्धवपदस्य
लवणपरत्वम् इत्यादौ । [ख ] तत्प्रतीतीच्छयोच्चरितत्वम् ( चि० १)
( मू० म० ) । यथा यत्परः शब्दः स शब्दार्थः इत्यादौ । ३ अधिक-
देशवृत्तित्वम् व्यापकत्वं वा । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेव
च ( भा०प० लो० ८) इत्यादौ सत्तामा द्रव्यत्वमपेक्ष्य द्रव्यत्वादेव
पृथिवीत्वाद्यपेक्ष्य व्यापकत्वात् परत्वम् (मु० १ पृ० ३४ ) । ४
सूक्ष्मत्वम् । यथा परं वा त्रुटे: (गौ० ४/२/१५) इत्यादौ त्रुटिमपेक्ष्य
परमाणोः परत्वम् । ५ मिन्नत्वम् । ६ श्रेष्ठत्वम् । यथा द्वे ब्रह्मणी
वेदितव्ये परं चापरम् (श्रुतिः ) इत्यादौ । ७ ब्रह्मण आयुःकालविशेषः
इति पौराणिका आहुः । अत्रोक्तम् । निजेन तस्य मानेन चायुर्वर्षशतं
स्मृतम् । तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ त्रीणि कल्पशतानि
स्युस्तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षे पराख्यं तच्च यत्पदम् ॥
इति ( कूर्म० भ० ५) ( वाच० ) । ८ शत्रुत्वम् इति काव्यज्ञा
आहुः ( बाच० ) ।
 
परममुक्तिः – ( निःश्रेयसम्) समानाधिकरण विशेषगुणावच्छिन्नसवासन-
मिथ्याज्ञानध्वंस: ( न्या० सि० दी० ) । यथा शुकभीष्मयुधिष्ठिरादीनां
परममुक्तिः ।