2023-02-20 00:55:36 by ambuda-bot
This page has not been fully proofread.
न्यायकोकः ।
विनाशो गुणबुद्धेश्रोत्पत्तिः । ततोपेक्षाबुद्धिविनाशानुणस्य विनश्यता
गुणज्ञानतत्संबन्धेम्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । तत्र द्रव्य-
बुद्धेरुत्पत्तिर्गुणस्य विनाशः इति । २ संयोग विनाशाद्यथा । अपेक्षाबुद्धि-
समकालमेव परत्वाधारे कर्मोत्पद्यते । तत्कर्मणा दिपिण्डविभागः
तदैव च परत्वस्योत्पत्तिरित्येकः कालः । ततः सामान्यबुद्धेरुत्पत्तिः दिक्-
पिण्डसंयोगस्य विनाशः । ततो यस्मिन्काले गुणबुद्धिरुत्पद्यते तस्मिनेव
काले दिपिण्डसंयोग विनाशाद्गुणस्य विनाशः । ३ द्रव्यविनाशादपि यथा
परत्वाधाराबयवे कर्मोत्पन्नं यस्मिन्नेव कालेवयवान्तराद्विभागं करोति
तस्मिन्नेव कालेपेक्षाबुद्धिरुत्पद्यते । ततो विभागाद्यस्मिन्नेव काले
संयोगविनाशस्तस्मिन्नेव काले परत्वमुत्पद्यते । ततः संयोगविनाशा-
द्रव्यविनाशः । तद्विनाशाच्च तदाश्रितस्य गुणस्य विनाशः । ४ द्रव्यापे-
क्षाबुयोर्युगपद्विनाशादपि यथा यदा परत्वाधारावयवे कर्मोत्पद्यते
तदैवापेक्षाबुद्धिरुत्पद्यते । कर्मणा तदवयवान्तराद्विभागः तदैव च
परत्वस्योत्पत्तिरित्येकः कालः ततो यस्मिन्नेव काले विभागात्संयो-
।
गविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते । तदनन्तरं संयोगविना-
शाद्रव्यविनाशः सामान्यबुद्धेर पेक्षाबुद्धिनाश इत्येकः कालः । ततो द्रव्यापे-
क्षाबुद्ध्योर्विनाशात्परत्वस्य विनाशः । ५ द्रव्यसंयोगविनाशादपि यथा यदा
परत्वाधारावयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति तस्मिन्नेव काले
पिण्डकर्मापेक्षाबुद्ध्योर्युगपदुत्पत्तिः । ततो यस्मिन्नेव काले परत्वस्योत्पत्ति-
स्तस्मिन्नेव काले अवयवविभागाद्रव्यारम्भकसंयोगविनाशः पिण्डकर्मणा
दिपिण्डविभागश्च क्रियते । ततो यस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते
तत्समानकालमवयवसंयोगविनाशात् पिण्डविनाशः दिपिण्डविभागाच
पिण्डसंयोगनाशः । ततो गुणबुद्धिसमानकालं पिण्डदिपिण्डसंयोगयोर्वि-
नाशात् परत्वस्य विनाशः । ६ संयोगापेक्षाबुद्धयोर्युमपद्विनाशादपि यथा यदा
परस्त्रमुत्पद्यते तदा परत्वाधारकर्म । ततो यस्मिन्नेव काले परत्वसामान्य-
बुद्धिरुत्पद्यते तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डविभागः क्रियते ।
ततः सामान्यबुद्धितोपेक्षाबुद्धिनाशो विभागाच दिपिण्डसंयोगविनाश
इत्येकः कालः । ततः संयोगविनाशादपेक्षा बुद्धिनाशात्परत्वस्य विनाशः ।