2023-02-20 00:55:36 by ambuda-bot
This page has not been fully proofread.
म्यायकोच्चः ।
कपरत्वष्यवहारस्योत्पत्तेर्म
परत्वस्य गुणान्तरस्वमित्याहुः ( दि० गु०
पृ० २०९) । वस्तुतस्तु विप्रकृष्टत्वज्ञानात्परत्वमुत्पद्यत इति विप्रकृष्ठत्वा-
स्परत्वं भिन्नमेवेति वैशेषिकसूत्रात् ( ७ । २ । २१) प्रतिभाति । [ ख ]
परत्वत्वजातिमत् । परव्यवहारासाधारणकारणम् । परत्वं द्विविधम् ।
दिक्कतम् कालकृतं च । तथा च परव्यवहारो द्विविधः । यथा अयं
ज्येष्ठः अयं दूरः इति ( वाक्य ० १ पृ० ८ ) । तत्र दूरस्थे दिकृतं
परत्वम् । ज्येष्ठे कालकृतं परत्वम् ( त० सं० ) । यो यदपेक्षया दूरस्थ:
तत्र तदवधिकं परत्वं दिक्कृतम् । अत्र दिपिण्डसंयोगोसमवायिकारणम् ।
दूरत्वज्ञानं निमित्तम् । तनाशश्च तन्नाश निमित्तम् । यो यदपेक्षया ज्येष्ठः
तत्र तदवधिकं परत्वं कालकृतम् । अत्र कालपिण्डसंयोगोसमवायि-
कारणम् । ज्येष्ठत्वज्ञानं निमित्तम् । तन्नाशश्च तन्नाशनिमित्तम् इति
( त० कौ० पृ० ६ ) । दिकृतं परत्वं मूर्तमात्रवृत्ति भवति । कालकृतं
परत्वं तु जन्यद्रव्यमात्रवृत्ति भवतीति ज्ञेयम् (सि० च० १ पृ० १८)
( त० कौ० १ पृ० ६ ) । अत्रेदं बोध्यम् । दिकृतत्वं च ज्ञायमान-
दिग्जन्यत्वम् । तथाहि वैराजाद्वेणासंगमापेक्षया करहाटकं स्वसमवाय-
संयुक्तसंयोगेन बहुतरदेशसंयोगवत् इति ज्ञानेन दैशिकपरत्वम् उत्पद्यते I
तब इदमस्माद्विप्रकृष्टम् इत्यपेक्षाबुद्धया जायते ( दि० १) । तत्र च
संबन्धघटकतया दिशः प्रवेशात्तज्जन्यत्वं बोध्यम् (वाक्य० ११० ८ ) ।
एवम् पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः झळकीमामाद्विजयपुरम-
पेक्ष्य कृष्णानदी परा इत्यत्रापि ज्ञेयम् । कालकृतत्वं च वसमवाय-
संयुक्तसंयोगसंबन्धेन रविक्रियाप्रकारकज्ञान
विषयकालजन्यत्वात् तत्संबन्ध-
घटककालजन्यत्वरूपम् स्वसंयोगजन्यत्वरूपं वा ( वाक्य० १ पृ० ८) ।
तच्च अयमस्माद्बद्भुतरकाळसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) । अ-
थवा बहुतरदिवाकरक्रियाविशिष्टशरीरज्ञानात्कालिकपरत्वोत्पत्तिरिति (सि०
च० ) । यथा रामो लक्ष्मणापेक्षया ज्येष्ठ इत्यादौ लक्ष्मणस्य सूर्य-
परिस्पन्दापेक्षया रामस्य सूर्यपरिस्पन्दा अधिकाः इति रामो ज्येष्ठः । विशे-
षस्तु अन्यत्र (बै० उ० ७।२।२१) द्रष्टव्यः । तत्र दिकृतस्योत्पत्तिरभिधी-
यते । एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबइल्पभावे सत्येकस्य
४६६