This page has not been fully proofread.

न्यायकोशः ।
 
दृष्टान्तः सिद्धान्तः अवयवः तर्कः निर्णयः वादः जल्पः वितण्डा
हेत्वाभासः छलम् जातिः निग्रहस्थानम् इत्येते षोडश पदार्थाः इति
गौतमप्रधाना नैयायिका आहुः । प्रेकृतिर्विकृतिरुमै॑यमनुभ॑यमिति भेदेन
चत्वारः पदार्था: संकलनया पञ्चविंशतिः इति सांख्याः पातञ्जलाश्चाडुः ।
तुतातभट्टमतानुयायिनां मते द्रव्यगुणकर्मसामान्यरूपाश्चत्वार एव पदार्थाः ।
प्राभाकरमते द्रव्यगुणकर्मसामान्यसंख्यासमवायसादृश्यशक्तयः इत्यष्टौ
पदार्था: (वै० वि० ) ( प० मा० ) ।
 
पद्मकः –सषष्ठीसप्तमीयोगे बारश्चेदंशुमालिन: । पद्मको नाम योगोयं
सहस्रार्क हैः समः ॥ (पु० चि० पृ० १०५) ।
 
-
 
परकृतिः - (अर्थवादः ) [क] अन्यकर्तृकस्य व्याहतस्य विधेर्वादः ।
( वात्स्या० २११/६४ ) । [ ख ] पुरुषविशेषनिष्ठमिथोविरुद्धकथनम् ।
यथा हुत्वा वपामेवाप्रेभिघारयन्ति अथ पृषदाज्यं तदुह चरकाध्वर्यवः
पृषदाज्यमेवाप्रेभिघारयन्ति अग्नेः प्राणाः पृषदाज्यमित्येवमभिदधति
( श्रुतिः ) इत्येवमादि ( गौ० वृ० २/१/६४ ) ( वात्स्या० २।१।६४) ।
[ग] एककर्तृकमुपाख्यानं परकृतिः ( भाट्टदी ० ६/७।२६)।
 
१९
 
-
 
परतन्त्रम् - १ इतरसत्ताधीनसत्ताकम् । यथा राजमृत्यः परतनः । २
क्वचित् स्वेतर बहिर्विषयकज्ञान जनकसामग्रीसापेक्षम् ( त० प्र० १ ) । यथा
मनश्चाक्षुषादिप्रत्यक्षे परतम् ( सर्व० पृ० ९ चार्वा० ) ( त० भा० ) ।
 
O
 
-
 
परत्वम् – १ ( गुणः ) [ क ] पराभिधानप्रत्ययनिमित्तम् । तत्तु द्विविधम् ।
विकृतम् काळकृतं च । तत्र दिक्कृतम् दिग्विशेषप्रत्यायकम् । कालकृतं
च वयोभेदप्रत्यायकम् ( प्रशस्त ० पृ० २०) । क्रमेणोदाहरणं
यथा गण्डौ कपोलौ तत्परे हनू (अमरः २/६/९० ) इत्यादौ परश्वस्त-
त्परेहनि ( अमरः ३।४।२२ ) इत्यादौ च । अत्र सूत्रम् एकदिक्काभ्यामेक-
कालाभ्यां संनिकृष्टविप्रकृष्ठाभ्यां परमपरं च ( बै० ७१२/२१ ) इति ।
परत्वस्य लक्षणं च परव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वम्
( वाक्य ० १ पृ० ८ ) । अत्र नव्याः बहुतर प्रदेशसंयोगान्तरितत्वरूप-
विकृत्व बहुत्तरसूर्यपरिसन्दान्तरितजन्यत्वरूपज्येष्ठत्वाम्यां दैशिककालि-
५९ न्या० को०