This page has not been fully proofread.

४९४
 
न्यायकोशः ।
 
गुणे । अपार्थकस्य गुणे । अप्राप्तकालस्य गुणे । न्यूनस्य गुणे ।
अधिकस्य गुणे । पुनरुक्तस्य गुणे । अननुभाषणस्याभावे । अज्ञानस्या-
भावे । अप्रतिभाया अभावे । विक्षेपस्याभावे । मतानुज्ञाया गुणे ।
पर्यनुयोज्योपेक्षणस्याभावे । निरनुयोज्यानुयोगस्य गुणे । अपसिद्धान्त-
स्याभावे । हेत्वाभासानां द्रव्यादिषु अन्तर्भावः इति ( दिन० १
पृ० २०-२२ ) ( नील० पृ० ४५-४६) । सामान्यादयः पदार्था
अलीका एव इति विज्ञानवादिनो बौद्धा आहुः ( राम० १) । दर्शनभेदेन
मतभेदेन च पदार्था नानाविधाः । तथाहि विषयतातत्त्वादिवत् प्रति-
योगित्वाधिकरणत्वतत्त्वसंबन्धत्वादयोप्यतिरिक्ता एव पदार्थाः इत्येकदेशिन
आहुः ( दीघि ० २ सिद्धा० ल० पृ० ४१ ) । चिदचिदात्मकौ दौ
पदार्थों इति मायावादिनो वेदान्तिन आहुः । चिदचिदीश्वरभेदेन त्रयः
पदार्था इति रामानुजीयाः । स्वतन्त्रपरतत्रभेदेन द्वौ पदार्थों इति माध्वाः ।
पतिपशुपाशभेदेन त्रयः पदार्थाः इति शैवा नाकुलीशाश्चाहुः । द्रव्यम्
गुणः कर्म सामान्यम् विशेषः समवायः एते षट् पदार्था इति कणाद-
प्रघाना वैशेषिका आहुः । अत्र भाष्यम् प्रमेयाः पदार्थाः इति
( प्रशस्त० पृ० २६ ) । एते भाषपदार्थाः । नञर्थानुल्लिखितघीविषयतया
भावरूपतया षडेवेति विवक्षिताः इति ( सर्व० पृ० २१४ औलू० ) ।
तथा च सूत्रम् धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां
पदार्थानां साधर्म्यवैधर्म्याम्यां तत्त्वज्ञानान्निःश्रेयसम् (वै० १ । १ । ४ )
इति । अभावस्तु कारणाभाषात्कार्याभावः (वै० ११२/१ ) ( ९२१११-
१०) इत्यादिसूत्रज्ञापितः इति बोध्यम् (त० व० ) (३० वि० १ । १।४) ।
अत्र न्यायलीलावतीकाराः । अभावश्च वक्तव्यः निःश्रेयसोपयोगित्वा-
द्भावप्रपञ्चवत् । कारणाभावेन कार्याभावस्य सर्वसिद्धत्वादुपयोगित्वसिद्धेः
इत्याहुः । न्यायाचार्यास्तु द्रव्यकिरणावल्याम् एते च पदार्था: षड् भावा:
प्रधानतयोद्दिष्टाः । अभावस्तु स्वरूपवानपि नोद्दिष्टः । प्रतियोगिनिरू-
पणाधीननिरूपणत्वात् न तु तुच्छवत् इत्यभावः सप्तमः पदार्थः इत्य
शीचक्रुः (३० वि० १।१।४ ) । प्रमाणम् प्रमेयम् संशयः प्रयोजनम्