This page has not been fully proofread.

न्यायकोशः ।
 
४६१
 
पतित्वम् – निरतिशयदृक्क्रयाशक्तिमत्त्वरूपेणैश्वर्येण नित्यसंबन्धित्वम् ।
पदम् – १ [ क ] ते विभक्त्तयन्ताः पदम् ( गौ० २/२/६० ) । यथा-
दर्शनं विकृता वर्णा विभत्तयन्ताः पदसंज्ञा भवन्ति । विभक्तिर्द्वयी ।
नामिकी आख्यातिकी च । ब्राह्मणः पचति इत्युदाहरणम् । उपसर्ग-
निपातास्तर्हि न पदसंज्ञाः । लक्षणान्तरं वाच्यमिति । शिष्यते च खलु
नामिक्या विभक्तेरव्ययाल्लोपः तयोः पदसंज्ञार्थमिति । पदेनार्थसंप्रत्यय
इति प्रयोजनम् । नामपदं चाधिकृत्य परीक्षा गौरिति पदं खल्विदमुदा-
हरणम् (वात्स्या० २१२/६० ) ( त० कौ० ) । पदस्त्वं च वृत्तिमत्त्वम्
( गौ० वृ० २/२/६० ) । संकेतवद्वर्णत्वम् ( वै० उ० २।२।२१ ) ।
पदानां साधुत्वं च व्याकरणव्यङ्ग्योर्थविशिष्टशब्दनिष्ठ: पुण्यजनक-
तावच्छेदको जातिविशेष: ( ल० म० ) । पदज्ञानं च शाब्दबोधे
कारणम् । सूत्रे विभक्तयन्तत्वं च शाब्दबोषौपथिकविभक्तिप्रकृतित्वम्
( ग० अव० हेतु० ) । [ ख ] वर्णसमूहः । समूह श्वात्रैकज्ञान विषय-
भाव एव । अत्रोच्यते । वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः इति
( सा० ६० परि० २ श्लो० २) । एवं तत्र वर्णानां क्रमवतामाशुतर-
विनाशित्वेनैकदानेकवर्णानुभवासंभवात् पूर्वपूर्ववर्णाननुभूयान्त्यवर्णश्रवण-
काले पूर्ववर्णानुभवजनित संस्कार सह कृतेनान्त्यवर्णसंबद्धेन पदव्युत्पादन-
समयग्रहणानुगृहीतेन श्रोत्रेणैकदैव सदसदनेकवर्णावगाहिनी पदप्रतीति-
र्जन्यते । सहकारिसामर्थ्यात्प्रत्यभिज्ञावत् । प्रत्यभिज्ञाप्रत्यक्षे हि अतीतापि
पूर्वावस्था स्फुरत्येव इति ( त० भा० प्रमा० ४ पृ० १८-१९) ।
[ ग ] शक्तम् ( त० सं० ४ ) ( मु० ४ १० १७९) । [घ]
अर्थबोधकम् । [ ङ ] सुप्तिङन्तं पदम् इति शाब्दिका वदन्ति ।
[ [च ] वाक्यैकदेशः पदम् इति केचिदाहुः । न्यायनये पदं द्विविधम् ।
मुख्यम् गौणं च । यच्छक्तिवृत्त्या यमर्थमुपस्थापयति तत्तस्मिन्नर्थे
मुख्यम् । यथा गोघटादिव्यत्क्त्युपस्थापकं गोघटादिपदम् ( त० कौ० ) ।
मुख्यमपि चतुर्विधम् । यौगिकम् रूढम् योगरूढम् यौगिकरूढं चेति ।
तत्राद्यं पाचकादिपदम् । द्वितीयं ब्राह्मणवाचकं विप्रपदम् गोमण्डपादि-