This page has not been fully proofread.

४६०
 
न्यायकोशः ।
 
कुर्वन्ति । २ वेदोज्वला बुद्धिः । यथा पठकाः पाठकाश्चैव ये चान्ये
शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियाबान् स पण्डितः ॥
( भा० व० ) इत्यादौ । ३ आगमजन्यं ज्ञानम् ( गी० भा० टी० ) ।
यथा विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च
पण्डिताः समदर्शिनः ॥ ( गीता० ५/१८ ) इत्यादौ । ४ सर्वविद्या-
धिकत्वं यत्पाण्डित्यं तदुदाहृतम् इति साहित्यशास्त्रज्ञा आदुः (प्रतापरुद्रे) ।
पतञ्जलिः– योगसूत्रकारक ऋषिविशेषः । पाणिनिसूत्रव्याख्यानरूपमहा-
भाष्यकारः शेषावतारत्वेन प्रसिद्धो मुनिविशेषः । अत्र पतन्नञ्जलिर्नमस्य-
तया यस्मिन् इति पतञ्जलिरिति व्युत्पत्तिर्द्रष्टव्या ( तत्त्वसु० ) । अथवा
पतन्नञ्जलित इति पतञ्जलिः इत्यपि व्युत्पत्तिः । अत्रैतिह्यम् गोनर्ददेशे
नद्यास्तीरे तपस्यतः कस्यचिदृषेरञ्जलितः पतितः इति ( शकंध्वा ०
वार्तिक शेखरे ) । केचित्तु व्याकरणमहाभाष्यकार: पतञ्जलिर्योगसूत्र-
काराद्भिन्न एवेति वदन्ति ।
 

 
पतनम् –१ [ क ] अधःसंयोगावच्छिन्नस्सन्दः । अत्र पतनत्वं च गुरुत्वा-
समवायिकारणक कर्मत्वम् ( दि० १ साधर्म्य० पृ० ६२ ) ( ग० व्यु०
का० २) । [ख ] स्पन्दत्वावान्तरजात्सवच्छिन्नः (ग० २ अवयव ० ) ।
यथा वृक्षात्पर्णे पततीत्यादौ पतत्यर्थः । स च वृक्षविभागजनकव्यापार-
मारभ्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रिया: पतनम् ( वाक्य ० १
पृ० ९) । [ग] अधःसंयोगावच्छिन्नो गुरुत्व प्रयोज्यपतनत्वजात्य-
वच्छिन्नो वा स्पन्दः ( श० प्र० लो० ६८ टी० १० ८०)।
२ धर्मज्ञास्तु पातिव्यम् । तच्च [ क ] भोगावच्छिन्नं दुरितम् । यथा
नरकं पतित इत्यादौ ( श० प्र० श्लो० ६५ टी पृ० ७६ ) । [ ख ]
द्विजातिकर्मभ्यो हानिः ( गौतम० ) । यथा विहितस्याननुष्ठानानिन्दितस्य
च सेवनात् । भनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥ ( याज्ञ० ० ३
लो० २१९) इत्यादौ इत्याहुः ।
 
-
 
पतिः - शिवः । यथा पतिपशुपाशास्त्रयः पदार्था इत्यत्र ( सर्व० सं०
पृ० १७५ शैव० ) ।