This page has not been fully proofread.

न्यायकोश ।
 
४५९
 
विनियोगफलकस्वीकारवान् इति बोधः । अत्र अव्यवहितोत्तरत्वं च स्वस
मानविषयक पुरुषान्तरीयविनियोगव्यवहितभिन्नत्वम् । तेन शूद्रात् प्रति-
महीना विप्रेण दत्तं धनमादातरि शूद्रादादत्ते इति न प्रयोगः ( का०
व्या० पृ० १०)।
 
पञ्चपाण्डवपतिका द्रौपदी पञ्चमीशब्देनोच्यते इति पौराणिका आहुः ।
सूर्यकिरणप्रतिबिम्बयोग्यत्वयोग्यस्वाभावयुक्ता चन्द्रस्य पञ्चमी कला इति
ज्योतिर्विदः । तादृशकलोपलक्षिततिथिश्च पञ्चमी इति मौहूर्तिका वदन्ति ।
 
-
 
पत्रलक्षणम् - १ अनुमानचिन्तामण्युक्तं व्याप्तिस्वरूपपञ्चकम् । तञ्च (१)
साभ्याभाववदवृत्तित्वम् (२) साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् (३)
साध्यवत्प्रतियोगिताकान्योन्याभावासामानाधिकरण्यम् (४) सकलसा-
ध्याभाववन्निष्ठाभाषप्रतियोगित्वम् (५) साध्यवदन्या वृत्तित्वम् इति (चि०२
पृ० २ ) । पञ्चलक्षणप्रतिपादकप्रन्थस्य पञ्चलक्षणी इति नाम । तत्र
पञ्चानां लक्षणानां समाहार: ( डीप् ) इति व्युत्पत्तिर्दृष्टव्या । २ पुराणं
पञ्चलक्षणम् इति पौराणिका आहुः । अत्र पञ्चलक्षणानि तु सर्गश्च
प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्च-
लक्षणम् ॥ इति ( अमर० क्षेपक० का० १ शब्दादि० ) ।
 
पट: ~१ वेष्टनवस्त्रम् । यथा तन्तवः पटस्य समवायिकारणम् इत्यादी
( त० सं० ) । २ चित्रलेखनपटः इति तत्रज्ञा आहुः ( देवीपु० )
( बृ० सं० अ० ७१ ) ( वाच ० ) ।
 
पण्डा-- १ ( अपूर्वम्) फलसाधनत्वयोग्यः अदृष्टविशेषः । यथा मीमां-
सकमते अहरहः संध्यामुपासीत इत्यादौ नित्यकर्मणः संध्यावन्दनादेर-
भावे दुरदृष्टं जायते संध्यादेवन्दने तु तस्यानुत्पस्या फलानुपहितं दुरदृष्टं
नश्यति इति तत्पण्डापूर्वम् । अत्र गुरवः । कार्यत्वेन अपूर्व एव विधेः
शक्तिः । तथा च न कलशं भक्षयेदित्यादिनिषेधे कलञ्जभक्षणाभाव-
विषयकं कार्यम् इत्यम्वयबोधः । तच्चापूर्वी न किंचित्फलजनकम् । अपि
तु स्वतः प्रयोजनं नित्यकर्मणः इत्यङ्गीचक्रुः ( बाच० ) ( दि० गु० ) ।
नैयायिकास्तु मित्यकर्मणामपि पापध्वंसादिरूपफलसत्त्वात्पण्डा पूर्व नाङ्गी-