2023-02-20 00:55:34 by ambuda-bot
This page has not been fully proofread.
४५८
न्यायकोशः ।
संदेशः इत्यादौ प्रकृत्यर्थपण्डितादिकर्तृको ञ्चारणाधीनत्वं पञ्चम्यर्थः ।
तस्य च श्रवण उच्चारण अर्थविशेषज्ञान इत्यादिक्रियायामन्वयः । अत्रा-
ख्यातुः पण्डितादे: आख्यातोपयोगे (पा० सू० १।४।२९) इत्यनेना-
पादानता (ग० व्यु० का० ५ पृ० १०७ ) । ३ वृत्तित्वम् । यथा
कूपादन्धं वारयतीत्यादौ पञ्चम्यर्थः । एवम् अधर्माज्जुगुप्सत इत्यत्रापि
पञ्चम्या वृत्तित्वमर्थः । धातोर्निन्दार्थः । तथा चात्र अधर्मे निन्दति
इत्यर्थो बोध्यते । एवम् उपाध्यायादन्तर्धत्ते शिष्य इत्यादौ पञ्चम्या
वृत्तित्वमर्थः । धातोः स्वविषयक प्रत्यक्षविरोधिव्यापारोर्थः । पञ्चम्यर्थवृत्ति-
त्वस्य धात्वर्थताबच्छेदकप्रत्यक्षेन्वयः । आख्यातस्य कृतिर्थः । एवं च
उपाध्यायसंबन्धिस्वविषयकप्रत्यक्षविरोधिव्यापारानुकूलकृतिमाञ् शिष्यः
\ इति बोध: ( का० व्या० पू० १०) । अत्र अन्तर्धी येनादर्शन मिच्छति
(पा० सू० १।४।२८) इत्यनेनापादानता । ४ संयोगनाशाब्यवहितो-
त्तरक्षेग्णवृत्तित्वम् संबन्धाचीनत्वं वा । यथा हिमवतो गङ्गा प्रभवतीत्यादौ
पञ्चम्यर्थः । ५ कर्मत्वम् ( विषयत्वम्) । यथा कृष्णात्पराजयते
शिशुपाल: अध्ययनात्पराजयते बाल इत्यादौ पञ्चम्यर्थः । अधर्माद्विर-
मतीत्यरादावपि पञ्चम्याः कर्मत्वमर्थः । धातोः करणमकरणं चार्थः ।
पञ्चम्यर्थ कर्मत्वस्य करणे अकरणे चान्वयः । तथा च अधर्मे पुनर्न करोति
इत्यर्थ । एवम् धर्मात्प्रमाद्यतीत्यादौ पञ्चम्या विषयत्वम् धातोरनवधानम्
आयातस्याश्रयत्वमर्थः । एवं च धर्मविषयकानवधानाश्रयः इति बोधः ।
शब्दशक्ति प्रकाशिकाकृतस्त्वत्रादुः । पापानिवर्तते अधर्माद्विरमतीत्यादौ
'पञ्चम्या द्वेषोर्थः । तत्र प्रकृत्यर्थस्य विषयत्वेन तस्य च निवृत्तिरूपे
धात्वर्थे जन्यत्वेनान्वयः । तेन पापगोचरद्वेषजन्यनिवृत्तिमान् इत्येवं बोध:
इति ( श० प्र० श्लो० ६८ टी० पृ० ८० ) । ६ यथेष्टविनियोगः ।
यथा विप्राद्धनमादत्त इत्यादौ पञ्चम्यर्थः ( का० व्या० १०९ - १०)
( म० प्र० पृ० ६ ) ( ग० न्यु० का० ५ पृ० १०६) ( श० प्र०
लो० ६८ टी० ) । अत्र धातोरपि यथेष्टविनियोगफलकस्वीकारोर्थः ।
पञ्चम्यर्थस्य विनियोगस्याव्यवहितोत्तरत्वसंनन्धेन धात्वर्थतावच्छेदके विनि-
योगेन्वयः । इत्थं च विप्रीययथेष्टविनियोगाव्यवहितोत्तरधनवृत्तियथेष्ट-