2023-02-20 00:55:34 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
४५७
1
पततीत्यादी भेदप्रतियोगितावच्छेदकत्वं विभागश्च पञ्चम्पर्थः । भेदे
विमागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । प्रतियोगिताव-
च्छेदकत्वस्याश्रयतासंबन्धेन विभागस्य च जनकतासंबन्धेन पत्यर्थ-
क्रियायामन्वयः । एवं च वृक्षनिष्ठभेदप्रतियोगितावच्छेदकं यक्षनिष्ठ-
विभागजनकं पतनं तदाश्रयः पर्णम् इत्याकारको बोध: ( ग० व्यु०
कारक० ५ पृ० १०४ ) ( का० व्या० पृ० ९ ) । [ग] अव-
धित्वम् अवधितानिरूपकत्वं वा । यथा वृक्षाद्विभजते फलमित्यादौ
पञ्चम्यर्थः । अत्रेदं बोध्यम् । अत्र नापादाने पञ्चमी किंतु अवधौ ।
वृक्षावधिकविभागाश्रयः फलम् इत्यवधित्वस्यैव बोधात् इति ( म० प्र०
पृ० ६ ) । अथवा अत्र विभागाषधित्वमपादानत्वम् । अपाये विभागे
ध्रुवमवधिभूतमपादान मिति सूत्रार्थः । तथा च वृक्षनिष्ठावधितानिरूपक-
विभागाश्रयः फलम् इति वाक्यार्थः ( का० व्या० पृ० ९ ) ( श०
प्र० श्लो० ६८ टी० ) । २ हेतुत्वम् । यथा घटो दण्डात् बढिघूमात
इत्यादौ पञ्चम्यर्थः । अत्र हेतुत्वं द्विविधम् । कारकत्वम् ज्ञापकत्वं च ।
तत्राद्यं यथा घटो दण्डादित्यादौ । द्वितीयं यथा वहिर्धूमादित्यादौ
( म० प्र० पृ० ६ ) । यथा वा व्याघ्राद्विभेतीत्यादौ जन्यत्वं ( प्रयो-
ज्यत्वं ) पञ्चम्यर्थः । अत्र भीत्रार्थानां भयहेतुः ( पा० सू० १९। ४ । २५)
इत्यनेनापादानत्वम् । सूत्रार्थश्च भयार्थकधातुयोगे भयहेतुत्वेन संभावित-
मपादानम् इति । तेन यस्य व्याघ्राचीनं भयमप्रसिद्धम् अथ च व्याघ्र
हेतुकत्वेन मरणादिकं संभावयति तत्पुरुषपर: व्याघ्रादयं बिभेति इति
प्रयोग: संगच्छते (ग० व्यु० का० ५ पृ० १०६) । अत्राह
व्याघ्राद्विभेतीत्यादौ नापादानपञ्चमी । किंतु हेतुत्वार्थिका पञ्चमी ।
तथाहि । धातोर्यथायथं भयं भयाभावश्चार्थः । पञ्चम्या हेतुत्वमर्थः ।
तच धात्वर्ये भये धास्वर्यंतावच्छेदके च भयत्वेन्वेति । आश्रयत्वं व्यापारश्च
यथायथमाख्यातार्थः । इत्थं च हेतुपञ्चम्यैवोपपत्तौ मीत्रार्थानां भयहेतुः
इति सूत्रं प्रपञ्चार्थम् इति बोध्यम् ( का० व्या० पू० ९-१०) ।
अत्रोदाह्रियन्ते । पण्डितात्पुराणं शृणोति उपाध्यायादघीते रामादघीत-
५८ न्या० को०