2023-02-20 00:55:34 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
अग्निना भस्मना चैव षभिः पङ्किर्षिभिद्यते ( कूर्मपु० अ० १५) इत्यादौ ।
२ छन्दोविशेषः इति वृत्तशास्त्रज्ञा आहुः । ३ दशसंख्या इति गणका
आहुः । ४ गौरवम् । ५ पाकः इति काव्यज्ञा आहुः ( वाच० ) ।
पचनम् – पाकः ( ल० म० ) ( ग० व्यु० का० २ ) ।
पचिः - १ पचधातुः । २ पाकः ।
-
पञ्चदशस्तोमः -पञ्चभ्यो हिंकरोति स तिसृमि: स एकया स एकया ।
पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया । पञ्चभ्यो हिंकरोति
स एकया स एकया स तिसृभिः इति । एकं सूक्तं त्रिरावर्तनीयम् । तत्र
प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरम्यासः । द्वितीयावृत्तौ मध्यमायाः ।
तृतीया वृत्तावृत्तमायाः । सोयं पञ्चदशस्तोमः ( जै० न्या० अ० १
५५० ४ अधि० ३ ) ।
-
पञ्चमी – (विभक्तिः ) तत्तद्धात्वर्थे ( पत्याद्यर्थे ) अपादानत्वादिबोधिका
विभक्तिः ( श० प्र० श्लो० ६५ ) । यथा वृक्षात्पर्ण पततीत्यादौ वृक्ष-
पदोत्तरपञ्चमी । पञ्चम्यर्थश्च १ [क] अपादानम् । यथा भूभृतो गङ्गा-
वतरतीत्यादौ पञ्चम्यर्थः । अत्र भूभृतो गङ्गासमवेतक्रियाजन्यवि-
भागाश्रयत्वात् अपादानत्वम् । तथा च सूत्रम् भुवमपायेपादानम्
( पा० सू० १।४।२४ ) इति । तदर्थश्च अपाये विभागे ध्रुवम्
निश्चलम् परसमवेतक्रियाजन्यविभागाश्रयः अपादानं स्यात् इति ( म०
प्र० पृ० ६ ) । अत्र गङ्गायामतिव्याप्तिवारणाय परसमवेतेति क्रिया-
विशेषणं दत्तम् । अयं विशेषः । स्पन्दजन्यविभागाश्रयत्वेन वृक्षादेर-
पादानवे वृक्षात्पर्णे स्पन्दते इत्यपि प्रयोग: स्यात् । अतः क्रियेति
सकर्मकधात्वर्थपरम् इति ( का० व्या० पृ० ९ ) । अथवा अपाये
विभागे यत् अवधिभूतं ध्रुवम् निश्चलम् प्रकृतपञ्चम्यर्थविभाग-
जनकत्वान्वयिक्रियाशून्यम् तदपादानसंज्ञं स्यात् इति ( का० व्या०
पृ० ९ ) ( सि० कौ० कारक० ) । [ ख ] भेदप्रतियोगितावच्छेदक-
त्वम् विभागश्च । यथा वृक्षात्पर्णे पततीत्यादौ पञ्चम्यर्थः । वृक्षापर्ण