2023-02-20 00:55:34 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
४५५
प्राभाकरमते विनापि घूमादिलिङ्गकवह्वषाद्यनुमितीच्छां तादृशानुमि-
व्युत्पत्या तादृशानुमित्साविरहविशिष्टप्रत्यक्षादिसामग्र्यभावस्य कारणता-
धिक्याद्गौरवम् । पक्षताहेतुतामते तादृशानुमितेरिच्छानियततया तत्रे-
च्छाया लघीयस्या हेतुतयैवोपपत्तेः पक्षतापि तत्रेच्छैव इति ( ग० पक्ष
पृ० ५८) । प्राभाकरास्तु विनाप्यनुमित्सां कचित्परामर्शानुमिति-
प्रवाहस्याविरललग्नस्यानुभाविकत्वात् कालभेदकल्पनायां च मानाभावाच्च
पक्षता नानुमितिहेतुः । परार्थानुमाने तु सिद्धसाधनमर्थान्तरविधया
दूषणमित्याडुः ( दीधि० पक्षता० २ पृ० १३२ - १३३ ) ।
पक्षधर्मता -[ क ] व्याप्यस्य ( हेतोः ) पक्षे वर्तमानत्वम् ( त० सं० २ )
( भा० ५० २ श्लो० ६९ ) । [ ख ] व्याप्यस्य पक्षसंबन्धः
( वाक्य० २ पृ० १३ ) । [ग] पक्षताश्रयवृत्तित्वम् (त० कौ० २
पृ० ११ ) । यथा पर्वते धूमेन वहौ साध्ये वह्निव्याप्यघूमवान् पर्वतः
इत्यत्र घूमस्य पक्षधर्मता ।
पक्षसमः
-
- ( हेत्वाभासः ) । संदिग्धसाध्यकधर्म्यन्तरम् ( ग० साधा० ) ।
पक्षासिद्धः - ( हेत्वाभासः ) आश्रयासिद्धः ।
●
पक्षासिद्धिः –—आश्रयासिद्धि: ( भा०प० २ श्लो० ७६-७७) ।
पक्षिणी-१ आगामिवर्तमानाहर्युक्ता रात्रिः ( अमरः १ ) । यथा यापये-
पक्षिणीं रात्रि शिष्यविंग्बान्धवेषु च ( मनु० ) इत्यादौ । अत्रोच्यते
द्वावदावेकरात्रिश्च पक्षिणीत्यभिधीयते इति । तत्र पूर्वदिनरात्रौ तन्निमित्ते
जाते पूर्व दिवसीय दिनमादायैव पक्षिणी इति व्यवहारः ( शुद्धि० त० ) ।
अत्र पक्षतुल्यौ दिवसौ यस्याः सा इति विग्रहः । पक्षशब्दादिन्प्रत्यये
डीप् ( वाच० ) । २ विहगजातिस्त्री इति काव्यज्ञा आहुः ।
पक्षिल:- गौतममुनिप्रणीतन्यायसूत्राणां भाष्यकर्ता वात्स्यायनो मुनि-
विशेषः ( त्रिका० )।
पति:- १ सजातीयपदार्थानां स्थितिविशेषः । यथा एकपक्कयुपविष्टा ये न
स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥