This page has not been fully proofread.

न्यायकोशः ।
 
पृ० १६ ) । २ [क] सिषाधयिषाविरहसहकृतसाधकमानाभावः
( चि० २ पृ० ३४ ) । अत्रायमर्थः । सिषाधयिषा अनुमित्सा ।
साधकमानं सिद्धिः । साध्यनिश्चयः इति यावत् । एवं च सिद्धिर-
नुमितिविरोधिनी । अतः तत्र सिषाधयिषोत्तेजिका वाच्या । तत्सत्त्वेनु-
मित्युदयात् । तथा च अनुमित्साविरहविशिष्टसिद्धिर्विरोधिनी । तदभावः
पक्षता इति पर्यवसितोर्थ: ( म० प्र० २ पृ० २३ ) । अत्रेदं बोध्यम् ।
श्रवणसंबद्धमात्रे घनगर्जिते इदं घनीयं गर्जित विशेषत्वात् इत्यनुमानस्य
संशयं विनाप्यानुभाविकत्वात् संशय विघटकशाब्दसिद्ध्यनन्तरं अनुमिते-
विहितत्वेन तत्र संशयाभावात् साध्यनिश्चये प्रत्यक्षेपि वही सत्यप्यनु-
मित्सायां सत्यामनुमितेरुत्पत्तेश्च तन्निर्वाहार्थे नव्यमतानुसारेणेयं पक्षतानु-
मितिप्रयोजिका इति ( न्या० म० २ पृ० १९ ) ( म० प्र० २
पृ० २४ ) ( त० दी० २ पृ० २४ ) । अयमाशयः । गगनविशेष्य-
कमेघप्रकारकसंदेहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जितश्रवणेन
गगनं मेघवत् इत्याकारकगगनत्वावच्छिन्नोद्देश्यता निरूपित मेघत्वावच्छिन्न-
विधेयता
कानुमितिदर्शनात् प्राचीनलक्षणं विहाय नवीनैः अनुमित्युद्देश्यत्वं
पक्षत्वम् इति स्थिरीकृतम् ( न्या० बी० २ पृ० १६-१७ ) । एवं
सिषाधयिषामात्रं न पक्षता । विनापि सिषाधयिषां घनगर्जितेन मेघानु-
मानात् । अतः संशयस्य सिषाधयिषायाश्च पक्षतात्वं तिरस्कृत्य सिद्धान्त-
सिद्धेयं पक्षता स्वीकृतेति भावः । संशय विघटकशाब्दसिद्ध्यनन्तर
मनुमितिश्च
वेदान्तवाक्यैर्विहिता यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि-
ध्यासितव्यः इत्यादिश्रुत्या श्रवणानन्तरं मननं अनुमितिरूपं विहितम् ।
तथा च तत्रात्मनस्तादृशवेदवाक्येन निश्चितत्वेन संशयाभावाद्व्यभिचारः
स्यादिति । [ ख ] सिषाधयिषाविरह विशिष्टसिद्ध्यभावः ( न्या० म० २
पृ० १९ ) ( भा० प० श्लो० ७१ ) । अत्रेदं बोध्यम् । सिद्धिः
पर्वतो वह्निमान् इति निश्चयः । तस्य सत्त्वे पर्वतो वह्निमान् इत्यनुमितेर-
नुत्पत्तेः सिद्धिरनुमितौ प्रतिबन्धिका । सिद्ध्यभावोनुमितौ कारणमिति
वक्तव्यम् । एवं सत्यपि पर्वतादौ पक्षे साध्यनिश्चये सत्यपि सत्यां च
सिषाधयिषायां पर्वतो बहिमान् इत्यनुमित्युत्पत्तिदर्शनात्तत्र पक्षतासंपत्तये
 
४५३