2023-02-20 00:55:34 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
पर्वतपक्षकवहिसाध्यकस्थले पर्वतो वह्निमान वा इति । अत्र वह्निमान्
इत्येकः पक्षः न वा इत्यपर: पक्षः इति ज्ञेयम् । २ पक्षतावान् (मु० २
पृ० १४६ ) । यथा संदिग्धसाध्यधर्मा धर्मी सिषाधयिषितसाध्यधर्मा धर्मी
वा पक्षः (चि० २ पृ० ३३) इत्यादौ पर्वते धूमेन वह्निसाधने
पर्वतः पक्षः ( त० सं० ) ( त० भा० पृ० १४ - १५ ) । पक्षता
यस्मिन्नस्ति स पक्ष इत्यर्थः (वै० उ० ९।२।१ ) । ३ व्यवहारज्ञास्तु
प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं
पक्षविदो विदुः ॥ इत्याहुः ( वीरमित्रो० अ० २ लेख्य० १० ६९ तत्र
बृहस्पतिः ) । ४ [ क ] मौहूर्तिकास्तु शुकृकृष्णप्रतिपदादिपञ्चदश्यन्त-
पञ्चदशतिथ्यात्मकः कालः इत्याहुः । [ ख ] द्वेषा विभक्तस्य चान्द्र-
मासस्यैको भागः पक्षः ( पु० वि० पृ० ३१ ) । ५ वैयाकरणास्तु
समूहः । यथा केशपक्ष इत्यादौ इत्याहुः । अत्र केशात्परः समूहार्थे
पक्षशब्दप्रयोगो ज्ञेयः । ६ काव्यज्ञास्तु खगानां पतन्त्रम् । ७ पार्श्वभागः ।
८ गृहम् । ९ विरोध: । १० सहायः । ११ बलम् । १२ मित्रम् ।
१३ वलयः इत्याहुः । १४ देहाभागः इति भिषज आहुः (वाच० ) ।
१५ भाषा । भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् ( मिता० २/६ ) ।
पक्षता - १ [ क ] साध्यवत्वेन संदिह्यमानत्वम् । यत्र साध्यनिश्चयोस्ति
तत्रानुमितेरनुत्पत्तिः इति साध्यनिश्चयकालेनुमितिवारणाय साध्यसंशय-
रूपा पक्षता अनुमितेरङ्गम् इति प्राचीनमताभिप्रायेणेयं पक्षता इति
बोध्यम् ( न्या० म० २ पृ० १९ ) ( म० प्र० २ पृ० २३ ) ।
अत्र भाष्यम् नानुपलब्धे न निर्णीतेर्ये न्यायः प्रवर्तते अपि तु संदिग्
इति ( वात्स्या० ) ( त० मा० १० १० ) । [ख] संदिग्धसाध्य-
त्वेनोपात्तत्वम् । [ग] संदिग्धसाध्यधर्मत्वम् ( चि० २ पृ० ३३ )
( त० सं० २ ) । अत्र संदिग्धं संदेहप्रकारीभूतं साध्यं यत्र इति
विग्रहे संदेहप्रकारीभूतसाध्यवत्वमित्यर्थः । यथा धूमानुमाने पर्वतस्य
पक्षत्वम् ( त० भा० पृ० १५ ) । इदं लक्षणत्रयम् अनुमितेः पूर्वं
साभ्यसंदेहो नियमेन वर्तते इत्यभिप्रायेण प्राचीनैः कृतम् ( म्या० बो० २