2023-02-20 00:55:33 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
तत्रागमविरुद्धं यथा शुचि नरशिरः कपालं प्राण्यङ्गत्वाच्छङ्गशुक्तिवत्
इति । प्रत्यक्षविरुद्धं तावत् वहिरनुष्णः कृतकत्वाद्धटादिवत् इति ।
( न्या० बा० १ पृ० १५) ।
४५१
-¯¯¯
न्यासः - गृहस्वामिनः परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणी-
यमिति ( मिताक्षरा २/६७) । राजचोरारातिभयादायादानां च वञ्चनात् ।
स्थाप्यतेन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ॥ ( बृहस्पतिः ) ।
-
न्यूनम् – १ ( निग्रहस्थानम् ) [ क ] हीनमन्यतमेनाप्यवयवेन न्यूनम्
(गौ० ५/२/१२ ) । प्रतिज्ञादीनामवयवानामन्यतमेनाप्यवयवेन हीनं
न्यूनं निग्रहस्थानम्। साधनाभावे साध्यासिद्धिरिति (वात्स्या० ५॥२॥१२ ) ।
[ख] यत्र विवक्षितार्थसमर्पकात्किचिन्यूनं तत् (त० भा० पृ० ५१ ) ।
[ग] यत्किंचिदषयवशून्यावयषाभिधानम् ( गौ० ३० ५/२/१२ )
( दि० १ पृ० २२ ) ( नील० पृ० ४५ ) । यथा न्यायमते पञ्चाना-
मवयवानां सिद्धान्तसिद्धत्वेन पर्वतो वह्निमान् घूमात् यो यो धूमवान् स
स वह्निमान् तथा चायम् इति चतुर्णामेवावयवानामभिधानं न्यूनं भवति ।
न चायमपसिद्धान्तः । सिद्धान्तविरुद्धानम्युपगमात् । अपि तु सभाक्षोभा-
दिनानमिधानात् । अत्रेदं बोध्यम् । अन्यतमेनाप्यवयवेन न्यूनमित्यत्र
अवयवेनेत्यस्य स्वशास्त्र सिद्धेनेत्यर्थः । तेन सौगतस्य अवयवद्वयामिधानेपि
न न्यूनत्वम् ( गौ० वृ० ५/२/१२) । २ ऊनम् । ३ गर्ह्यम् इति
काव्यज्ञा आहुः ।
न्यूनवृत्तित्वम्-अल्पदेशकालवृत्तित्वम् । यथा पृथिवीत्वस्य द्रव्यत्वमपेक्ष्य
न्यूनवृत्तित्वम् । न्यूनवृत्तिधर्म एव व्याप्यधर्मो भवति ।
पक्षः – १ [ क ] विप्रतिपत्त्येक कोटिः ( गौ० दृ० ११२।१ ) । यथा
पक्षप्रतिपक्षपरिग्रहो बादः ( गौ० ११२।१ ) इत्यादौ शब्दो नित्यो न
वेति विप्रतिपत्तौ नित्यः इति पक्षः अनित्यः इति प्रतिपक्षः । [ ख ]
वादिप्रतिवादिभ्यां दर्शितविप्रतिपत्तिरूपः संशायकः कोटिभेदः । यथा