2023-02-20 00:55:33 by ambuda-bot
This page has not been fully proofread.
४५०
न्यायकोशः ।
पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ ( सांख्य
कौ० श्लो० १ टी० ) इति । कदम्बमुकुलन्यायः सूचीकटाइन्यायः इत्या-
दिश्च । शास्त्रप्रसिद्धस्तु यथा सविशेषणे हि वर्तमानौ विधिनिषेधौ विशेषण-
मुपसंक्रामतः सति विशेष्ये बाधे इति न्यायः अभ्यारोपन्यायः मानाघीना
मेयसिद्धिः इतिन्यायः इत्यादि ।
न्यायशास्त्रम् – असाधारण्येन व्यपदेशा भवन्ति इति न्यायेन न्यायस्य परा-
र्थानुमानापर पर्यायस्य सकलविद्यानुप्राहकतया सर्वकर्मानुष्ठानसाधनतया
प्रधानत्वेन गौतममुनिप्रणीतशास्त्रस्य न्यायशास्त्रम् इति व्यपदेशो युज्यते ।
तथा अभाणि सर्वज्ञेन सोयं परमो न्यायः । विप्रतिपन्नपुरुषं प्रति प्रतिपा-
दकत्वात् तथा प्रवृत्तिहेतुत्वाच्च इति ( सर्व ० ० २४४ अक्ष० )।
यथा गौतममुनिप्रणीतं प्रमाणप्रमेयसंशयप्रयोजन ( गौ० १११११ ) इत्या-
द्यारम्य हेत्वाभासाश्च यथोक्ताः ( गौ० ५।२।२५ ) इत्येतत्पर्यन्तं पञ्चा-
ध्यायात्मकं सूत्रोपनिबद्धं न्यायदर्शनम् । तदुक्तम् कणादेन च संप्रोक्तं
शास्त्रं वैशेषिकं महत् । गौतमेन तथा न्यायं सांख्यं च कपिलेन वै ॥
इत्यादि ( पद्मपुराणे उत्तरखण्डे अ० २०७ ) । अस्य शास्त्रस्य प्रवृत्तिश्च
त्रिविधा उद्देश: लक्षणम् परीक्षा चेति (वात्स्या० ११११२ ) ( त० भा०
पृ० १ ) । अधिकं तु न्यायशब्दव्याख्यानावसरे संपादितम् । एतच्छा-
स्त्रस्य प्रयोजनं च निःश्रेयसप्राप्तिः । यदाइ भाष्यकार: आत्मादेः खलु
प्रमेयस्य तत्त्वज्ञानान्निःश्रेयसाधिगमः । तचैतदुत्तरसूत्रेणानूयत इति । हेयं
तस्य निर्वर्तकं हानमात्यन्तिकम् तस्योपायोधिगन्तव्य इत्येतानि चत्वार्यर्थ-
पदानि सम्यग्बुध्वा निःश्रेयसमधिगच्छति (वात्स्या० १/१/१ पृ० २ ) ।
न्यायसिद्धान्तः - न्यायो गौतमप्रणीतसूत्रसंदर्भरूपा तर्कविद्या । तत्र
सिद्धान्तः अबाधितार्थ: ( म०प्र० पृ० ३ ) । यथा न्यायसिद्धान्त-
मञ्जरी इत्यादौ । नैयायिकस्य मनस इन्द्रियत्वम् पार्थिवावयव अषयवि
एतदुभयेषु च पाकः इति न्यायसिद्धान्तः इत्यादौ च ।
-
न्यायाभासः – यत्पुनरनुमानं प्रत्यक्षागमषिरुद्धं न्यायामासः सः ( वात्स्या
१ । १ । १ ) ( न्या० वा० १ पृ० १५ ) ( ल० म० ५४५ ) ।