This page has not been fully proofread.

म्यायकोशः ।
 
४४९
 
हेतुषाक्यं निष्प्रतियोगिकमन्वयं बोधयितुमीष्टे । तस्मात् साध्यनिर्देशान-
तरं कुतः इत्याकायां साधनताव्यञ्जकविभक्तिमल्लिङ्गवचनमेवोचितम्
इति प्रतिज्ञानन्तरं हेतूपन्यासः । हेतावुक्ते कथमस्य गमकत्वम् इत्या-
काङ्क्षायां व्याप्तिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तय्प्रदर्शना-
योदाहरणम् । उदाहरणानन्तरं भवतु व्याप्तिः । तथापि व्याप्तं किं पक्षे
वर्तते न वा इत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्व प्रदर्शनायोपनयः । उप-
मयानन्तरं निगमनम् । न च व्याप्तिपक्षधर्मतायाश्चतुर्भिरेवावयवैः पर्याप्तः
किं तेन इति वाच्यम् । अबाधितासप्रतिपक्षत्वयोरलामे चतुर्णामप्य-
पर्यवसानात् इति ( चि० २ अव० पृ० ७७ – ८२ ) । अथवा पर्वतो
वहिमान् इति प्रतिज्ञाते कुतः इत्याकाङ्क्षायां घूमात् इति प्रयोगः । ततः
कथमस्य गमकत्वम् इत्याकाङ्क्षायां व्यातिपक्षधर्मताभ्याम् । तत्र कासौ
व्याप्तिः इत्याकाङ्क्षायां यो यो घूमवान् स स वह्निमान् यथा महानसम् इति
प्रयोगः । ततः व्याप्तस्य पक्षधर्मत्वमस्ति न वा इत्याकाङ्क्षायां वह्निव्याप्य-
धूमवांश्चायम् इति तथा चायम् इति वा प्रयोगः । ततः व्याप्तिपक्षधर्मता-
वानप्ययं हेतुर्बाधित एव सत्प्रतिपक्ष एव वा स्यात् इत्याकाङ्क्षायामबाधित-
त्वास प्रतिपक्षत्वबोधनाय तस्माद्वहिमान् इति तस्मात्तथा इति वा निगमन-
प्रयोगः । न चानेनाप्यबाधितत्वादिबोधः कथं जन्यत इति वाच्यम् ।
साभ्यपुनर्वचनस्यानुवादतया प्रयोजनजिज्ञासायां परिशेषाद्वाधादिविघ्नन-
मेव तत् इत्यवसीयते । तथैव व्युत्पत्तेः । तदाडु: उपसंहारस्यायं महिमा
यद्विपरीतशङ्काविलोपनं नाम इति । अत्रेदं बोध्यम् । दृष्टान्तप्रयोगस्तु
सामयिकः न नियतः इति ( म० प्र० २ पृ० ३१-३२ ) ।
४ प्रमाणानामनुग्राहकस्तर्कः ( भा० ) । तदनुगृहीतप्रमाणगम्यो भग-
वान् विष्णुरपि न्यायशब्देन लक्षितलक्षणया प्रतिपाद्यते ( आनन्द -
गिरिः ) । यथा न्यायप्रसूनाञ्जलि: न्यायकुसुमाञ्जलि: इत्यादौ ( वाच० ) ।
)।
५ वेदार्थनिर्णयसाधनमधिकरणात्मकः पदार्थः । स च न्यायः पूर्वोत्तर-
वेदसंबन्धो जैमिनिवेदव्यासाभ्यां बहुप्रकारो दर्शितः । ६ लोकशास्त्र प्रसि-
द्धदृष्टान्तविशेषः । तत्र लोकप्रसिद्धो यथा अक्के चेन्मधु विन्देत किमर्थ
५७ न्या० को०