This page has not been fully proofread.

THE
 
न्यायकोशः ।
 
:" नियमः संशयितेथें न्यायः प्रवर्तते इति ( वात्स्या० १११/१ ) ।
नानुपलब्चे न निर्णीतेथे न्यायः प्रवर्तते अपि तु संदिग्धे इति ( त०
भा० पृ० १० ) । अत्र गदाधर आह जल्पस्थले संशयस्यावश्यकत्वेपि
वादस्थले न तथा इति संशयमन्तरेणापि अनुमित्साधी नानुमिति निर्वाहाय
न्यायप्रयोगसंभवात् इति (ग० २ अवयव० पृ० २२) ।
संदिग्धेर्थे न्यायः प्रवर्तते इति नियमस्तु जल्पे एव न तु
भावः । [ख] समस्तरूपोपेतलिङ्गबोधकवाक्यजातं न्यायः ( कु० १
टी० हरिदासः ) । वाक्यजातं च प्रतिज्ञादिपञ्चकम् । समस्तरूपाणि च
पक्षसत्त्वम् सपक्षसत्त्वम् विपक्षासत्त्वम् अबाधित विषयत्वम् असत्प्रति-
पक्षितत्वं चेति पञ्च ( म० प्र० २ १० ३१ ) । [ग] अनुमिति-
चरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम् ( चि० २ अव०
पृ० ७६ ) । [घ ] क्रमिकप्रतिज्ञा दिसमुदाय: । यथा पर्वतपक्षक-
वह्निसाध्यकधूमहेतुकस्थले पर्वतो वह्निमान् इत्यादि प्रतिज्ञादिघटितवाक्य-
पञ्चकं न्यायः । प्रतिज्ञादीनि पञ्च वाक्यानि तु प्रतिज्ञा हेतु: उदा-
हरणम् उपनयः निगमनम् इति । यथा ( १ ) पर्वतो वह्निमान् ( २ )
घूमात् (३) यो यो धूमवान् स स वह्निमान् ( ४ ) वहिव्याप्यधूमधान-
यम् (५) तस्मादह्निमान् इति ( न्या० म० २ पृ० २३ ) । अत्र
उदाहरणान्त एव प्रयोगः इति न वाच्यम् । तृतीयलिङ्ग परामर्शस्य
ब्याप्तपक्षधर्मतावगाहिनोवयवान्तरादलाभात् । तदनभ्युपगमेपि पक्षधर्म-
ताया अलाभात् इति । मीमांसकानामुदाहरणान्तः प्रतिज्ञा हेतु उदाहरण
एतत्रयात्मकः न्यायः । बौद्धानामुदाहरणोपनयद्वयावयवको न्यायः ।
अतिप्राचीननैयायिकानां दशावयवको न्यायः । दशावयवाश्च प्रतिज्ञादि-
पञ्चकम् संशयः जिज्ञासा शक्यप्राप्तिः प्रयोजनम् संशयव्युदासश्चेति ।
अथ प्रतिज्ञादीनां पञ्चानामवयवानां क्रमोभिघीयते । कथायामाकाङ्क्षा-
क्रमेणाभिधानमिति प्रथमं साध्याभिधानं विना कुतः इत्याकारकहेत्वाद्या-
काङ्क्षाया अभावात् प्राथम्येन प्रतिज्ञाप्रयोगः । तथाहि विप्रति-
पत्य समयबन्धानन्तरं शब्दानित्यत्वं साधय इति मध्यस्थस्य वादिनो
या आकाङ्क्षायां शब्दानित्यत्वं साध्यम् । न च साम्यनिर्देशं विना
 
d
 
तथा च
वादे इति