This page has not been fully proofread.

न्यायकोशः ।
 
नैयायिकः । परममहर्षिर्गौतमश्च पञ्चाध्यायात्मकं न्यायदर्शनं नाम
सूत्रोपबद्धं प्रणिनाय नैयायिकशब्दव्युत्पत्तिः न्यायं वेस्यधीते वा इति
नैयायिकः ( उक्थादि० ठक् ) । न्यायदर्शनं च प्रमाणप्रमेयसंशय-
प्रयोजन० ( गौ० सू० १११११ ) इत्याद्यारभ्य हेत्वाभासाच यथोक्ताः
( गौ० सू० ५/२/२५) इत्येतत्पर्यन्तं सूत्रसमूहात्मकम् ।
 
-
 
नैर्ऋती - १ (दिक् ) [क] सुमेरुव्यवहितोदयगिरिव्यवहिता च दिक्
( ३० वि० २१ २११० ) । [ ख ] दक्षिणपश्चिमदिक् ( वै० उ०
२।२।१० ) । यथा नैर्ऋत दिशमाश्रयेत् ( आ० त० ) इत्यादी
( वाच० ) । यथा वा अक्कलकोटमामा नैर्ऋत्यां झळकीग्रामो द्वादशसु
क्रोशेषु । २ मूलनक्षत्रम् इति मौहूर्तिका आहुः । नैर्ऋत्या दिशः
अधिष्ठाता निर्ऋतः इति विज्ञेयम् ( वै० उ० २१२।१० ) ।
 
नैवेद्यम् – निवेदनीयं द्रव्यं तु नैवेद्यमिति कथ्यते ( स्मृतिः ) । तच्च पञ्च-
विधम् भक्ष्यं भोज्यं च लेह्यं पेयं चोष्यं च पञ्चमम् । सर्वत्र चैत-
नैवेद्यमाराध्यस्य निवेदयेत् ॥ इति ( कालि० पु० ) ( वाच० )।
नोदनम् -१ [ क ] स संयोगविशेष: येन संयोगेन जनितं कर्म
संयोगिनोः परस्परं विभागहेतुर्न भवति यः संयोगः शब्दनिमित्तकारणं
न भवति वा सः ( वै० उ० ५२।१ ) । [ ख ] क्रियादिकारणीभूतः
संयोगः ( सि० च० ) । [ग] चलस्य वेगवद्रव्यसंयोगविशेषः इति
मायावादिन आहुः । एतन्मते अभिघातस्तु स्थिरस्य वेगवद्रव्यसंयोग-
विशेष एव । २ खण्डनम् । ३ प्रेरणम् । विधिरूपा चोदना ।
 
-
 
नोदना – क्रियां प्रति प्रवर्तकं वचः (षड्दर्शनसमुच्चये पृ० ६७ प० १५) ।
न्याय: – १ [ क ] प्रमाणैरर्थपरीक्षणम् । किमुक्तं भवति । समस्त प्रमाण-
व्यापारादर्थाधिगतिर्म्यायः इति ( न्या० वा० १ पृ० १४ ) । अत्र
व्युत्पत्तिः । नीयते प्राप्यते विवक्षितार्थसिद्धिरनेन इति न्यायः इति ।
[ ख ] प्रत्यक्षागमाश्रितममुमानम् ( वात्स्या० १।१११ ) । प्रत्यक्षा-
गमाश्रितमिति प्रत्यक्षागमाविरोधि । यदि ह्यनुमानाधिगतोर्थः प्रत्यक्षा-