2023-02-20 00:55:33 by ambuda-bot
This page has not been fully proofread.
४४४
न्यायकोशः ।
पुरा प्रोक्ता मयानघ । ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनाम् ॥
(गीता० ३।३) इत्यादौ । अत्र निष्ठाशब्दार्थः ४ श्रद्धा इति
केचिदाहुः । ५ ज्ञानम् । यथा ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ( ऋ०
सू० ११ ११७ ) इत्यादौ । ६ पौराणिकास्तु अवधारणम् । यथा घ्राणं
जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च । न निष्ठामधिगच्छन्ति
बुद्धिस्तामधिगच्छति ॥ ( भा० आश्व० ६६५) इत्यादौ इत्याहुः ।
७ समाप्तिः निष्पत्तिः संस्कारसंपत्तिर्वा ( मेधा० कुल्लू० नन्दन० ) ।
यथा मनुनारदावाहतुः पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां
निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ( मनु० अ० ८ श्लो० २२७)
( निर्ण० सि० ३ पृ० ३७ ) इत्यादौ इति धर्मज्ञा आहुः । ८ नाशः ।
९ अन्तः । १० सीमा । ११ निर्वहणम् । १२ याच्या ( वाच० ) ।
निसर्गः-- परोपदेशनिरपेक्षमात्मस्वरूपम् ( सर्व० सं० पृ० ६३ आई०) ।
नील: – ( वृषः ) लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः
खुरविषाणाभ्यां स नीलो वृष उच्यते ॥ ( पु० चि० पृ० ३०६ ) ।
नीलज्येष्ठा - तत्राष्टम्यां यदा वारो भानोर्ज्येष्ठर्क्षमेव च । नीलज्येष्ठेति सा
प्रोक्ता दुर्लभा बहुकालिका ॥ (पु० चि० पृ० १३३ ) ।
●
नृत्यम् – [ क ] नाट्यशास्त्रानुसारेण हस्तपादादी नामुत्क्षेपणादिकमङ्गप्रत्यङ्गो-
पाङ्गसहितं हावभावसमेतं च ( सर्व० पृ० १६९ नकु० ) । यथा
शिवो नृत्यति संध्यायामुत्साहेन गणैः सह इत्यादौ नृत्यत्यर्थः । [ ख ]
तालमानयुक्तं सविलासाङ्गविक्षेपरूपं नर्तनम् ( वाच० ) । यथा गोपा-
ङ्गना नृत्यमनन्दयत्तम् ( भट्टि० ) इत्यादौ । तल्लक्षणादि यथा देवरुच्या
प्रतीतो यस्तालमानरसाश्रयः । सविलासोङ्गविक्षेपो नृत्यमित्युच्यते बुधैः ॥
ताण्डवं च तथा लास्यं द्विविधं नृत्यमुच्यते । अङ्गविक्षेपबाहुल्यं तथा-
भिनयशून्यता ॥ ताण्डवं बहुरूपं तद्वारुणागलमुद्धतम् । छुरितं यौवतं
चेति लास्यं द्विविधमुच्यते ॥ यत्राभिनयाद्यैर्भावै रसैराश्लेषचुम्बनैः ।
नायिकानायकौ रङ्गे नृत्यतरहुरितं हि तत् ॥ मधुरं बद्धलीलामिर्नटीभि-