This page has not been fully proofread.

न्यायकोशः ।
 
४४३
 
भावम् । अतः निषेधवरक्यादस्य भेदः ( ग० ) । एकादश्यां न भुञ्जीत
इति वाक्यस्यापि निषेधत्वे कालमात्रापेक्षतया तत्कालमात्रेण निवृत्तिः
स्यात् इति । एवम् नेक्षेतोद्यन्तमादित्यम् इत्यादावपि निषेधविधित्वमाहुः
( वाच० ) । अत एव एकादशीभोजनाभावस्याभोजन संकल्परूपस्य
व्रतत्वम् तिथिखण्डविशेषनियमनं च संगच्छते । निषेधविधिरित्यस्यार्थश्च
निषेधे अभावे विधिः इष्टसाधनताषीहेतुः इति ( वाच० ) ।
निषेधशेषः - निन्दार्थवादः ( लौ० मा० पृ० ५४ ) ।
 
निष्कर्षः – १ निश्चयः । यथा निष्कृष्टार्थः इत्यादौ । २ खरूपम् । यथा
स उपाधिर्भवेत्तस्य निष्कर्षोयं प्रदर्श्यते ( भा०प० श्लो० १३९ )
इत्यादौ । ३ सारांश: ( मेधा कुल्लू० ) । यथा एतद्विदन्तो विद्वांस-
स्त्रयीनिष्कर्षमन्वहम् ( मनु० अ० ४ श्लो० १२५) इत्यादौ ।
 
४ इयत्तादिना स्वरूपपरिच्छेदः ( वाच० ) ।
 
निष्कासः – आमिक्षाया लेपः । यथा वारुण्या निष्कासेन तुषैश्चावभृथं
यन्ति ( जै० न्या० अ० ७ पा० ३ अधि० ४ ) ।
 
निष्कासिनी – ( दासी ) स्वाम्यनवरुद्धा दासी ( मिताक्षरा २/२९ ) ।
निष्कुट: -- गृहारामः ( पु० चि० पृ० २४२) ।
 
निष्क्रमणम् – १ स्पर्शवद्रव्यसंचार: ( वै० उ० ) । यथा सांख्यमते
निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् ( वै० २११/२०) इत्यादौ ।
२ आ प्रसवाच्चतुर्थे मासि शिशोः कर्तव्यः प्रथमनिष्क्रमनिमित्तः
संस्कारविशेषो निष्क्रमणम् इति धर्मज्ञा मौहूर्तिकाश्च वदन्ति ।
 

 
निष्ठा – १ [क] वृत्तिः (विद्यमानत्वम्) (मु० २ व्याप्ति० पृ० १४०)।
यथा अथवा हेतुमन्निष्ठविरहाप्रतियोगिना। साध्येन हेतोरैकाधिकरण्यं
व्याप्तिरुच्यते ॥ (भा० प० श्लो० ७० ) इत्यादौ । [ख ] आधेय-
त्वम् । २ तक्तवतू प्रत्ययौ निष्ठा इति शाब्दिका आहुः । ३ वेदान्ति-
नस्तु स्वरूपेण स्थितिः ( गीताभाष्य ० ) । यथा लोकेस्मिद्विविधा निष्ठा