This page has not been fully proofread.

४४९
 
न्यायकोशः ।
 

 
इति विज्ञेयम् ( त० कौ० ४ पृ० १७ ) । मीमांसकास्तु पुरुषस्य
निवर्तकं वाक्यं निषेधः । यथा न कलजं भक्षयेत् इत्यादिवाक्यम्
इत्याहुः । तथाहि निषेधस्तु निवर्तनां प्रतिपादयन् स्वनिवर्तकत्व निर्वाहार्थं
निषेध्यस्य कलञ्जभक्षणादे: परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त
यति इति ( लौ० भा० पृ० ४६ ) । अत्र प्रत्ययगतो य आख्यातांश-
स्तद्वाच्यायाः प्रवृत्तिरूपार्थभावनायाः नञर्थेन्वयः । अत्राहुः । नञश्चैवं
स्वभावः स्वसमभिव्याहृतपदार्थविरोधिबोधकत्वम् इति । यथा घटो नास्ती-
त्यादौ अस्तीतिशब्दसमभिव्याहृतो नञ् घटसत्त्वविरोधि घटासत्त्वं गमयति ।
तदिह लिङ्समभिव्याहृतो नञ् लिङर्थप्रवर्तनाविरोधिनीं निवर्तनामेव
बोधयति इति ( लौ० भा० पृ० ४८-५१.) । अत्रायं विशेषो ज्ञेयः ।
यदा तु प्रत्ययार्थस्य तत्र नञर्थे अन्वये बाधकं तदा धान्वर्थस्यैव तत्र
नञ अन्वयः । तच्च बाधकं द्विविधम् । तस्य व्रतम् इत्युपक्रमः
विकल्पप्रसक्तिश्च । तत्राद्यम् नेक्षेतोद्यन्तमादित्यम् इत्यादौ । तथा च
स्नातकव्रतस्य कर्तव्यार्थत्वेनोपक्रमात् तदनुरोधेनात्रत्यनञा धात्वर्थविरोध्य-
नीक्षणसंकल्प एव लक्षणया प्रतिपाद्यत इति पर्युदासाश्रयणम् । एवं च
आदित्य विषयकानीक्षणसंकल्पेन भावयेत् इति वाक्यार्थः । द्वितीयं बाधकं
विकल्पप्रसक्तिः । यजतिषु ये यजामहं करोति नानुयाजेषु इत्यादौ ।
अत्र विकल्पप्रसक्तौ च नञोनुयाजसंबन्धमाश्रित्य पर्युदासस्यैवाश्रयणम् न
प्रतिषेधस्याश्रयणम् । इत्थं च अनुयाजव्यतिरिक्तेषु यजतिषु ये यजामहे
इति शब्दं कुर्यात् इति वाक्यार्थबोधः । नञोनुयाजव्यतिरिक्ते लाक्षणिक-
त्वात् । एवं च न विकल्पः इति ( लौ० भा० पृ० ४८-५१ ) ।
२ अभावः । यथा त्रैकालिकनिषेधप्रतियोगित्वम् इत्यादौ । ३
निवृत्तिः । तदुक्तं भट्ट : निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते इति
( वाच० ) ।
 
निषेधविधिः - (विधि) अभाव इष्टसाधनताबोधकं वाक्यम् । यथा
 
-
 
एकादश्यां न भुञ्जीत इत्यादिवाक्यं निषेधविधि: ( वाच० ) । अत्र
भोजनाभाव एवेष्टसाधनत्वं बोधयति । न तु भोजने विध्यर्थेष्टसाधनत्वा