2023-02-20 00:55:32 by ambuda-bot
This page has not been fully proofread.
न्यायकोश ।
कचित् विशेषण विशेष्यतावच्छेदकभाषानापनविरोधिकोटिद्वयप्रकार-
कैकधर्मिविशेष्यकज्ञानान्यज्ञानम् । यथा द्वितीययत्तुकारमते पक्षतावच्छे-
दकविशिष्टे निरुक्तसाध्यहेतुवैशिष्ट्यावगाहिनिश्चयावृत्तिविषयितैव विरोधि
विषयितापदार्थः इति निर्वचने हृदो वह्निमान् घूमात् इत्यादौ हृदो वह्निमान्
वहिव्याप्यघूमवांश्च इति निश्चयः । अत्र कोटिद्वये विशेषणविशेष्यताव-
च्छेदकभावानापन्नत्वनिवेशात् निर्वह्निः पर्वतो वह्निमान् इत्यादौ निर्वह्निः
पर्वतो वह्निमान् वह्निव्याप्यघूमवांश्च इति निश्चयस्य नासंग्रह: ( ग० २
हेत्वा० सामा० पृ० २७ ) । ३ क्वचित्तु आधेयताविशेषणतापन्नस्या-
धिकरणस्य या संशयत्वनिरूपकविशेष्यतान्यविशेष्यता तन्निरूपित-
प्रकारताशालि ज्ञानम् । अत्रेदमवधेयम् । संशये च प्रत्येककोटिनिश्चयीय-
विशेष्यताभ्यामतिरिक्तैव विशेष्यता वर्तते इति ( ग० साधा० ) ।
तन्निरूपितप्रकारताशालि तादृशज्ञानं च साध्याभावांशे निश्चयः इत्युच्यते ।
४ बुद्धेरसाधारणवृत्तिविशेषः इति मायावादिनो मन्यन्ते ( वेदा०प० ) ।
५ अध्यवसायः इति सांख्या: ( सांख्य० भा० २।१३ ) । ६ अर्था-
लंकारविशेषः इत्यालंकारिका आहुः (वाच० ) ।
०
२
88?
निषिद्धम् – निषेध विषयीभूतम् । तच्च अनिष्टसाधनताबोधकलिङा धनुषक्त-
नञ्पदयोगिवाक्यगम्यम् । यथा न कलखं भक्षयेत् इत्यत्र कलञ्जभक्षणं
निषिद्धम् । यथा वा न सुरां पिबेत् ( श्रुतिः ) इत्यादौ सुरापानं
निषिद्धम् । अत्र निषिद्धत्वं चाधर्मापादकत्वम् । अन्ये तु भ्रमावगतेष्ट-
साधनता निषेधिनञ्पदयोगिवाक्यगम्यम् इत्यप्याहु: ( वाच० ) ।
निषेधः – १ ( बाक्यम् ) [ क ] अनिष्टसाधनताबोधको वाक्यविशेषः ।
स च द्विविधः । लौकिक: वैदिकश्च । तत्र लौकिकम् विषं मा भुद्ध
इति वाक्यम् । वैदिकं तु न कलजं भक्षयेत् न सुरां पिबेत् अष्टम्यां
मांसं नाश्नीयात् इत्यादिवाक्यम् । अत्र मांसभोजने अनिष्टसाधनत्वं
बोधयति इति बोध्यम् ( वाच ० ) । [ ख ] निवृत्तिपरं वाक्यम् । यथा
न कलशं भक्षयेत् इति । अत्र कलञ्जभक्षणं नेष्टविशेषसाधनम् इति
वाक्यार्थः । इष्टविशेषश्चात्र पापानुत्पत्तिरेष। तथैव वाक्यतात्पर्यात्
५६ न्या० को०