2023-02-20 00:55:31 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
यतः (न्त० कौ० गु० पृ० १९ ) । यथा अपरोक्षीकृतश्रीशो विष-
येम्यो निवर्तते इत्यादौ । निवृत्तिच प्रवृत्यभाव एवेति नव्या आहुः
( त० प्र० उ० ४ पृ० ७३) (प०मा० ) । सुषुप्त्यवस्थायां अयमितो
निवृत्तः इत्यादिव्यवहारेण निवृत्त्याख्यप्रयत्नसिद्धिदुर्वारेत्यन्ये प्राचीननैया-
यिका: आहुः (प० मा० ) । २ सांख्यास्तु संयोगाभाव एव निवृत्तिः ।
यथा औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः ( सांख्यका० ५८)
इत्यादौ इत्याहुः । अत्रायं नियमोनुसंधेयः इच्छा विषयसिद्धौ इटप्रासौ
निवर्तते इति ( सांख्य ० कौ० श्लो० ५८ ) । ३ कलझाधिकरणे मीमांस-
कास्तु प्रवृत्युपाधिना विनाशं प्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणस्य
साध्यमानो निवृत्तिरित्युच्यत इत्याहुः (बाच० ) । ४ अभावः । यथा
व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् ( म० प्र० २ पृ० ३०)
इत्यादौ । यथा वा निवृत्तपदार्थक इत्यादौ ( नसूत्रभाष्य ० ) ( बै०
भू० ) । यथा वा विपक्षः साध्यधर्मनिवृत्तिमान् ( ता० २० श्लो० २१)
इत्यादौ निवृत्तिशब्दस्यार्थः ।
०
-
-
निवेशनम् – पलालकूटाद्यर्थं विभक्तो भूप्रदेशः (मिताक्षरा व्य० लो०१५४ ) ।
निशा – १ रात्रिः । यथा न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि
( मनु० ) निशातुषारैर्नयनाम्बुकल्पै: (भट्टिः ) इत्यादौ । २ मेषादयो
राशयः इति ज्योतिषज्ञा आहुः । ३ हरिद्रेति भिषज आहुः (वाच● }}
निश्चय: - ( बुद्धिः ) १ तदभावाप्रकारकत्वे सति तत्प्रकारकं ज्ञानम्
( त० प्र० २ ) ( भा०प० लो० १३०) (मु० गु० पृ० २०९) ।
तद्वद्विशेष्यकत्वावच्छिन्नतदभावप्रकारताशून्यतद्वद्विशेष्यकत्वावच्छिन्नतत्प्र-
कारकत्ववज्ज्ञानमित्यर्थः । तेन न महानसोयं वह्निमान् नवा पर्वतो वह्नि-
मान् इत्यस्य समूहालम्बनज्ञानस्य पर्वते वह्निनिश्चयत्वाप्राप्तिः ( दि०
गु० पृ० २०९) । तदभावप्रकारत्वानिरूपिततव्प्रकारतानिरूपितविशे-
ब्यताशालिज्ञानम् इत्यर्थो वा ( त० व० ) । यथा भूतलं घटवत् इति
निश्चयः । अत्र च संशयभिनं ज्ञानं निश्चयः इति सर्वेषां सिद्धान्तः । नि-
श्रयत्वं न जातिः । प्रत्यक्षत्वादिना सांकर्यात् । किं तु विषयिताविशेष एव ।