This page has not been fully proofread.

न्यायकोशः ।
 
४३९
 
निर्विकल्पकेपि विषयतापेक्षितेति प्रकारता विशेष्यता संसर्गता एतत्र-
यातिरिक्ता तुरीया विलक्षणविषयता स्वीक्रियते इति (नील०१पृ०१७) ।
निलयनम् – किंचित्कर्तृकदर्शनाभावप्रयोजकदेश विशेषस्थितिः । यथा मातु-
र्निलीयते कृष्ण इत्यादौ धात्वर्थो निलयनम् । धात्वर्थदर्शनकर्ता-
त्रापादानम् । तत्पूर्वकनिवृत्तिर्धातोरर्थः । तत्र मातुरपादानत्वेनान्वय इति
भाष्यमतम् । दर्शने मातृकर्तृकत्वं प्रत्यासत्तिगम्यम् ( ल० म० सुब०
का० ५ पृ० १०९) । अत्र अन्तर्धी येनादर्शनमिच्छति ( पा०
सू० १९।४।२८) इत्यनेन मातुरपादानसंज्ञा । सूत्रार्थस्तु यत्कर्तृक-
दर्शनस्याभावमात्मनः माता मां न पश्यतु इति इच्छति ( कृष्णः )
तस्यापादानसंज्ञा इति ।
 
निवर्तनम् — विंशतिवंश परिमिता भूमिः । वंशस्तु दशहस्तपरिमितः ।
निवारणम् – वारणम् ।
 
निवासः – यत्र देशे स्वयं वसति स देशः । अभिजनस्तु यत्र पूर्वैरुषितं
स देश इति विशेष: ( सि० कौ० तद्धि० पृ० १३८ ) ।
 

 
निविष्टम् – भृत्या प्राप्तम् ।
 
-
 
निवृत्तिः – १ [ क ] जिहासाप्रयुक्तस्य दुःखसाधन परिवर्जनम् (वात्स्या०
प्रस्तावना० १।१।१ ) । [ ख ] द्वेषजन्यो गुण: ( सि० च० गु०
पृ० ३५ ) । [ग] द्वेषजनित: प्रयत्नविशेष: (वै० उ० ३ । १ । १९)।
लक्षणं च निवृत्तित्वमेव । तच्च द्वेषजन्यतावच्छेदकतया सिद्धो जाति-
विशेष: ( दि० गु० ) । अत्रेदं बोध्यम् । निवृत्ति प्रति फलगतद्वेषो
द्विष्टसाधनताज्ञानं च कारणम् ( भा०प० श्लो० १५३ ) इत्यन्वय-
व्यतिरेकाभ्यामवधार्यते ( मु० गु० पृ० २३१ ) । अत्रायं विवेकः ।
दुःखसाधनविषयकनिवृत्तिं प्रति द्विष्टसाधनताज्ञानं कारणम् । दुःख-
निवृत्तिं प्रति तु दुःखद्वेष एव कारणम् इति । [घ ] उत्कटद्वेषजन्यो
यत्नविशेषः (वै० वि० ३।२।१९ ) । [ङ ] द्विष्टसाधनताज्ञानजन्यो