2023-02-20 00:55:31 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
मन्त्र नैयायिकाः । निर्विकल्पकज्ञानसत्वे प्रमाणमनुमानम् । तच्च विशि-
वृज्ञानं जन्यविशेषणज्ञानपूर्वकम् जन्यविशिष्टज्ञानत्वात् दण्डी पुरुषः
इति विशिष्टज्ञानवत् इति ( न्या० दी० पृ० ३४ ) । निर्वि-
कल्पकासत्वे सुप्तोत्थितस्य अयं घटः इति विशिष्टज्ञानं न स्यात् ।
विशेषणीभूतस्य घटत्वस्याज्ञानात् । विशेषणज्ञानं विना विशिष्टज्ञानानु-
दयेन विशेषणज्ञानस्य विशिष्टज्ञानहेतुत्वात् । तथा च विशेषणज्ञानमेव
निर्विकल्पकम् इति तस्यावश्यकत्वमिति भावः ( त० कौ ० १
पृ० ८ ) । चक्षुः संयोगाद्यनन्तरं घटः इत्याकारकं घटत्वादि-
विशिष्टज्ञानं न संभवति । पूर्व विशेषणस्य घटत्वादेर्ज्ञानाभावात् ।
विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । तथा च प्रथमतो घटघटत्व-
योर्वैशिष्ट्यानवगाह्येब ज्ञानं जायते । तदेव निर्विकल्पकम् ( मु० १
पृ० ११७ - ११८ ) । निर्विकल्पकं यद्यपि न प्रत्यक्षसिद्धं तथापि
अयं घटः इति विशिष्टज्ञानरूपकार्यानुमेयम् । तथाहि । जन्यतद्विशिष्ट-
ज्ञानं प्रति जन्यतद्विशेषणज्ञानं कारणमिति निर्विवादम् । भवति च
प्राथमिकमस्माकम् अयं घटः इति जन्यघटत्वविशिष्टज्ञानम् । अत-
स्तत्रापि घटत्वज्ञानं कारणम् । न च तदानीं घटत्वविशिष्टज्ञानमस्ति ।
विशेषणीभूतघटत्वस्याज्ञानात् । अतो वैशिट्यानवगाह्येव तद्वाच्यम् ।
तदेव निर्विकल्पकम् इति ( न्या० म० १ पृ० ३ ) । अत्रेदमवधेयम् ।
इन्द्रियजन्यज्ञानस्य कदा पुनर्ज्ञानं करणम् इति चेत् उच्यते । सवि-
कल्पकज्ञानानन्तरं हानोपादानोपेक्षाबुद्धयो जायन्ते । तदा निर्विकल्पकं
ज्ञानं करणम् । सविकल्पकमवान्तरव्यापारः । हानादिबुद्धयः फलम्
इति ( त० भा० पृ० ६ ) । ननु निर्विकल्पकज्ञानस्य प्रकारतादि-
शून्यत्वे तद्वति तत्प्रकारकत्वरूपं यथार्थत्वं कथम् इति चेत् उच्यते ।
तद्वन्निष्ठविशेष्यत्वानिरूपिता या या तत्तव्प्रकारता तत्तदनिरूपक-
त्वम् स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तत्तन्निरूपकत्वा-
भावकूटवत्त्वं वा याथार्थ्य विवक्षणीयम् । अथवा निर्विकल्पकं भ्रमप्रमा-
बहिर्भूतमेव प्रवृत्त्यनङ्गत्वात् इति तत्र तद्वति तत्प्रकारकत्वाद्यभावेपि
नाव्याप्तिशका इति । अत्रेदमवषेयम् । ज्ञानमात्रस्य सविषयकत्वेन
-