This page has not been fully proofread.

न्यानोक ।
 
कैक्यं संगतिः । यत्रैकेन कारणेन कार्यद्वयं तदधिकसंख्याकं वो कार्य-
मुत्पाद्यते तत्रेयं संगतिर्ज्ञेया । इदं तु निर्वाहकत्वमित्यप्युच्यते (भो ) ।
निर्विकल्पकम् – ( प्रत्यक्षम् ) [ क ] नामजात्यादियोजनारहितम् वैशि-
ध्यानवगाहि निष्प्रकारकं प्रत्यक्षम् ( चि० १ ) ( ता० २० ) ।
वैशिष्ट्यानवगाहीत्यस्य वैशिष्ट्यनिष्ठसांसर्गिकविषयताशून्यमित्यर्थः ( त०
प्र० १ ) ( म० प्र० १ पृ० ९ ) । निष्प्रकारकमित्यस्यार्थश्च प्रकार-
ताशून्यज्ञानम् (न्या० बो० ) । [ ख ] विशेषणविशेष्यसंबन्धानवगाहि
ज्ञानम् (त० दी० ) (मु० ) (त० कौ० १ पृ० ८) (प्र० प्र० ) ।
तथा च ज्ञानत्वघटितं विशेष्यताशून्यत्वम् विशेषणताशून्यत्वम् संसर्गता-
शून्यत्वं च लक्षणत्रयं पर्यवसितम् इति भावः ( नील० १ पृ० १७ )
( वाक्य ० १ पृ० १२) । तच्च वस्तुस्वरूपमात्रग्रहणम् । यदाहुः
सांख्यवृद्धाः संमुग्धं वस्तुमात्रं तु प्राग्गृह्णात्य विकल्पितम् । तत्सामान्य-
विशेषाभ्यां कल्पयन्ति मनीषिणः ॥ इति ( सांख्य० कौ० श्लो० २७
टी० पृ० ३६ ) । यथा किंचिदिदम् इति ज्ञानम् ( त० सं० ) ।
यथा वा दूरात् किंचिदस्ति इति प्रत्यक्षम् ( प्र० प्र० ) । घटघटत्वे
इत्याकारकं वा प्रत्यक्षम् ( त० कौ० १ पृ० ८ ) । तच्च ज्ञानमतीन्द्रि-
यम् अनित्यम् निराकारं चेति ज्ञेयम् ( भा०प० श्लो० ५९ ) ( न्या०
म० ) । अत्र बौद्धैः वैभाषिकैः अभिधीयते निर्विकल्पकज्ञानमेव प्रमाणम् ।
कल्पनापोढत्वात् । तद्भिनं सर्वमप्रमाणम् । कल्पनाज्ञानत्वात् इति
( सर्व० पृ० ४४ बौद्ध० ) । [ग] अलौकिक आलोचनात्मको
ज्ञानविशेषः इति केचित् । तदुक्तं सांख्यवृद्धैः अस्ति ह्यालोचनज्ञानं
प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं मुग्धवस्तुजम् ॥ ततः
परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुद्ध्यावसीयते सा हि प्रत्यक्षत्वेन
संमता ॥ इति ( सांख्य० कौ० श्लो० २७ पृ० ३६ ) । [घ ] माया-
वादिनस्तु ज्ञातृज्ञेयादिविभागशून्यं ब्रह्मैकात्मविषयमखण्डाकारकं विशेष्य-
विशेषणसंबन्धरहितं ज्ञानम् इत्याहुः ( वाच० ) । मध्वमतानुयायि-
वेदान्तिनस्तु निर्विकल्पकं ज्ञानं नाङ्गीकुर्वन्ति ( प्र० प० पृ० ११) ।