2023-02-20 00:55:31 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
श्रीयते न प्रयुज्यते । न विषक्ष्यते इति यावत् ( बै० सा० द०
सुब० पृ० १६३ ) । [ ख ] प्रकृत्यविवक्षायां निष्पाद्यम् । यथा घटं
करोतीत्यादौ सत्या अपि मृदादिप्रकृतेः परिणामित्वेनाविषक्षा ( बै० सा०
८० सुब० पृ० १६३ ) । अत्रोक्तं भर्तृहरिणा यदसज्जायते सहा
जन्मना यत्प्रकाशते । प्रकृतेस्तु विवक्षायां विकार्य कैश्विदन्यथा ॥
तन्निर्वर्त्यम् इति ( ग० व्यु० का० २ पृ० ६५ ) ( वै० सा० ८०
सुब० पृ० १६३) । अत्र विवेको ज्ञेयः । प्रकृतिकर्मासमभिव्याहारे
निर्वर्व्यम् इत्युच्यते । यथा कटं घटं वा करोति भस्म करोति इत्यादौ
निर्वर्त्यम् । प्रकृतिकर्मसमभिष्याहारे तु विकार्यम् इत्युच्यते । यथा
काशान्कटं करोति मृदं घटं करोति काष्ठं भस्म करोति इत्यादौ विका-
र्यम् इति ( ग० व्यु० कार० २ पृ० ६५ ) ।
निर्वाहः–१ [ क ] कार्यसंपादनम् । यथा यावता स्यात्स्वनिर्वाहः
स्वीकुर्यात्तावदेवतु ( नारदीयपु० ) इत्यादौ ( वाच० ) । [ख]
निष्पादनम् । २ समाप्तिः ।
निर्वाहकत्वम् - ( संगतिः ) १ [ क ] कथंचिदनुकूलत्वम् ( म० प्र० १
पृ० १५ ) । [ ख ] एककार्यनिर्वाहकत्वम् । एककार्यनिर्वाहकत्वं च
कारण कारणतावच्छेदक एतदुभयसाधारणं प्रयोजकत्वम् । यथा व्याप्ति-
पक्षधर्मतयोरनुमित्यात्मकैककार्याजनकत्वेपि तज्जन कीभूतज्ञान विषयताव-
च्छेदकत्वेनैककार्यानुकूलत्वम् । तत्र सामान्यतोनुमितिलक्षणैककार्यानु-
कूलत्वज्ञाने किं तदनुकूलम् इति जिज्ञासायाम् अनन्तरं पक्षधर्मता-
निरूपणमिति ( भवा ० )। [ग] एककार्यजनकत्वम् ( वै० सा० द० ) ।
कारणकारणतावच्छेदकसाधारण
प्रयोजकत्वरूपमित्यर्थः । २ कार्यत्वम् ।
अत्र व्याख्यानम् । निर्वाहकत्वम् कारणतानिर्वाहकत्वम् । कार्यत्वमिति
यावत् ( जग० ) । प्रयोज्यत्वं वा निर्वाहकत्वमिति केचिदाहुः ।
निर्वाहकैक्यम् – ( संगतिः ) एकप्रयोजकप्रयोज्यत्वम् ( राम० २ १०
१३४ ) । यथा प्रत्यक्षनिरूपणानन्तरं परामर्थानुमित्योर्निरूपणे निर्वाह-