This page has not been fully proofread.

न्यायकोशः ।
 
४३५
 
षणशून्याब्राह्मणादेव व्यावृत्तः क्षत्रियो भवति । नराणां क्षत्रियः
शूरः नरेषु वा । अध्वगानां रथगामिनः शीघ्रतराः अध्वगेषु वा । गवां
कृष्णा संपन्नक्षीरा गोषु वा इत्यादौ यतश्च निर्धारणम् ( पा० सू०
२ । ३ । ४१ ) इत्यनेन षष्ठीसप्तम्यौ विधीयेते। सूत्रार्थश्च जात्यादि-
विशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृश विशेषणशून्यतद्धर्मावच्छिन्नव्यावृ-
तत्वविशिष्टविधेयवत्तया प्रतिपादनम् तद्धर्मावच्छिन्नार्थकपदात् षष्ठी-
सप्तम्यौ इति । एतदुक्तं भवति । जातिगुणक्रियासंज्ञा विशिष्टस्यैकदेशस्य
यतः स्वघटितसमुदायात्खेतरसमुदायघटकव्यावृत्तधर्मकरणकं पृथकरणं
तद्वाचकात् षष्ठीसप्तम्यौ स्त इति । अत्र स्वेतरार्थस्य समुदायघटकार्थे
अमेदेनान्वयः । उदाहरणानि तु नृणां नृषु वा ब्राह्मणः श्रेष्ठः । गवां
गोषु वा कृष्णा बहुक्षीरा । गच्छतां गच्छत्सु वा धावञ्छीघ्रः । छात्राणां
छात्रेषु वा मैत्रः पटुः । विस्तरस्तु शेखरादौ द्रष्टव्यः । प्रकृते च
क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छ्रन्यनरादिव्यावृत्तत्वेन शौर्य-
विशेषादिरूपविधेयसंबन्धोभिमतः इति नरादिपदात् षष्ठी ( ग० व्यु०
का० ६ पृ० ११३) ।
 
Sp
 
निर्मन्थ्यम् - प्रोक्षणसाधनजलम् (जै० सू० दृ० अ० १ पा०४ सू०१२) ।
निर्वर्त्यम् – ( कर्म ) [ क ] क्रियया यन्निष्पाद्यते तत् । यथा कटं घटं
वा करोतीत्यादौ । अत्र कृञः फलावच्छिन्नव्यापाराबोधकतया गौण-
कर्मत्वम् । तच्च साध्यताख्यं कृतिविषयत्वम् ( का० व्या० पृ० ६ ) ।
निर्वर्त्यमेव च उत्पाद्यम् इति कैश्चिच्छास्त्रकारैर्व्यवयित इति विज्ञेयम् ।
अथ निर्वर्सत्वस्य लक्षणमुच्यते । घटौदनादीनां या मृत्तण्डुलादिप्रकृतिः
तादृशप्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यते सति निष्पाद्यत्वम्
( वै० सा० द० सुब० पृ० १६३ ) । अथवा प्रकृतिवाचकपदा-
समभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवस्त्वम् । यथा
घटं करोतीत्यादौ घटादेः क्रियाजन्योत्पत्तिमत्वान्नित्वम् (वाच० ) ।
तदुक्तं भर्तृहरिणा सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी । यस्य
नाश्रीयते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ इति । यस्य विकृतिकर्मणः ।