2023-02-20 00:55:30 by ambuda-bot
This page has not been fully proofread.
४३४
न्यायकोशः ।
०
यथा साध्यनिर्देशः प्रतिज्ञा ( गौ० ११ १२ १३३ ) इत्यादौ । [घ ]
प्रतिपादकः शब्दः । यथा ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः
ॐ
स्मृतः ( गीता अ० १७ श्लो० २३) इत्यादौ । २ निर्णयेन कथ-
नम् । यथा अतुषत्पीठमासन्ने निरदिक्षच काञ्चनम् (भट्टि ) इत्यादौ ।
३ उपदेशः । ४ शासनम् आज्ञा । ५ वेतनम् । यथा कालमेव
प्रतीक्षेत निर्देशं भृतको यथा ( पुराणम् ) इत्यादौ ( वाच० ) ।
निर्धनः – भार्या दासश्च पुत्रश्च निर्धनाः सर्व एव ते । यत्ते समधि-
गच्छन्ति यस्य ते तस्य तद्धनम् ॥ ( जै० सू० वृ० अ० ६ पा० १
सू० १३ ) ।
निर्धर्मकत्वम् – १ किंचिनिष्ठप्रकारत्वानिरूपकत्वम् । यथा निर्विकल्पक-
ज्ञानस्य निर्धर्मकत्वम् । २ मायावादिनस्तु स्वभिन्नधर्मशून्यत्वम् । यथा
ब्रह्मणो निर्धर्मकत्वम् इति वदन्ति ( दि० १) ।
—
निर्धारणम् – [क] विशेषस्य स्वेतरसामान्यव्यावृत्तधर्मवत्त्वम् । यथा
नराणां क्षत्रियः शूरतमः नरेषु वा इत्यत्र ( श० प्र० श्लो० ९३
टी० पृ० १२८ ) । [ ख ] जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य
तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्या वृत्तत्वविशिष्टविधेयवत्तया प्रतिपाद-
नम् । जात्यादयः जातिगुणक्रियासंज्ञाः । तथा च नराणां क्षत्रियः शूर
इत्यादौ जातिः क्षत्रियत्वम् तच्च तद्विशेषणं च तेन विशिष्टो यद्धर्मा-
वच्छिन्नः नरत्वरूपसामान्यधर्मावच्छिन्नः तस्य तादृशविशेषणम् क्षत्रिय-
त्वम् तेन शून्यस्तद्धर्मावच्छिन्नः नरत्वावच्छिन्नः तस्माद्व्यावृत्तत्वम् अवृत्ति-
त्वम् तेन विशिष्टम् सहितम् विधेयम् शौर्यम् तद्वत्तया प्रतिपादनम् इति ।
नरेभ्यो राक्षसाः शूरतमाः इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छ्रन्य-
नरादिव्यावृत्तशूरतमत्वविवक्षायामपि न निरुक्तनिर्धारणम् । राक्षसत्वादि-
विशिष्टस्य नरत्वादिसामान्यधर्मानवच्छिन्नत्वात् । अतो नातिव्याप्तिः ।
नराणां क्षत्रियः शूरतम इत्यादौ क्षत्रियादिनिष्ठशूरतमत्वादौ नरादि-
सामान्यव्यावृत्तत्वबाधात् असंभवः । अतः शून्यत्वान्तं व्यावृत्यवधे-
स्तद्धर्मावच्छिन्नेत्यस्य विशेषणं दत्तम् । तादृशक्षत्रियत्वजातिरूपविशे-