This page has not been fully proofread.

न्यायकोचः ।
 
पुरुषो वा इति संशयोत्पत्तौ शिरःपाण्यादिदर्शनात् पुरुष एवायम् इत्य-
वधारणज्ञानं प्रत्यक्षनिर्णय: । द्वितीयं यथा विषाणमात्रदर्शनात् गौर्गवयो
वा इति संशयोत्पत्ती सास्नामात्र दर्शनात् गौरेवायम् इत्यवधारणज्ञानम्
अनुमाननिर्णयः इति ( प्रशस्त ० २ पृ० ३२ ) । [ ख ] विमृश्य
पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ( गौ० १।१।४१ ) । तदर्थच
विमृश्य संदिह्य पक्षप्रतिपक्षाम्यां साधनोपालम्भाभ्यामर्थस्यावधारणम् ।
तदभावाप्रकारकं तत्प्रकारकं ज्ञानमित्यर्थः । यद्यप्येतावदेव निर्णय-
सामान्यलक्षणं तथापि विमृश्येत्यादिकं जल्पवितण्डास्थलीयनिर्णयमधिकृत्य ।
तदुक्तं भाष्ये शास्त्रे वादे च विमर्शवर्जमिति । एवम् प्रत्यक्षतः शब्दाच
निर्णये न विमर्शपक्षप्रतिपक्षापेक्षेति ( गौ० वृ० ११११४९ ) ( वात्स्या ०
१।१।४१ ) । अत्रायं विशेषो ज्ञेयः । निर्णयस्तत्त्वज्ञानम् प्रमा-
णानां फलम् ( वात्स्या० १।१।१ पृ० ६ ) ( त० मा० पृ० ४४ ) ।
निर्णयस्तत्त्वज्ञानम् प्रमाणानां फलम् । तच्च यदा वस्त्वन्तरपरिच्छेद-
हेतुत्वेन नोपादीयते तदा फलम् । यदा तेन परिच्छिनत्ति तदा प्रमाणम्
इति न व्यवतिष्ठते प्रमाणफलभावः ( न्या० वा० १ पृ० १९ ) ।
स्थापना साधनम् । प्रतिषेध उपालम्भः । तौ साधनोपालम्भौ पक्षप्रति-
पक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्तमानौ पक्षप्रतिपक्षावित्युच्येते । तयोर-
न्यतरस्य निवृत्तिरेकतरस्यावस्थानमवश्यंभावि । यस्यावस्थानं तस्यावधारणं
 
-
 
निर्णयः (वात्स्या० १११९ ४१ ) । [ग] यथार्थानुभवपर्याया प्रमिति-
निर्णय: ( सर्व० सं० पृ० २३९ अक्षपा० ) । २ अधिकरणाङ्ग विशेषः
इति मीमांसका आहुः । अत्रोच्यते । विषयो विशयश्चैव पूर्वपक्षस्तथोत्त-
रम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेधिकरणं स्मृतम् ॥ इति । ३ सिद्धान्त-
सिद्धविचार्यवाक्यतात्पर्यावधारणमिति सांख्या आहुः ( सांख्य० कौ० ) ।
 

 
निर्देश:– १ [ क ] शब्दप्रयोगः ( गौ० दृ० ५/२१८ ) । यथा वर्ण-
क्रमनिर्देशवन्निरर्थकम् ( गौ० ५१२१८) इत्यादौ । [ ख ] उच्चारणम् ।
यथा अनुनासिक इति निर्देशात् इत्यादौ निर्दिश्यमानस्यादेशा भवन्ति
( सि० कौ० ) इत्यादौ च । [ग] यत्किंचिदर्थप्रतिपादकः शब्दः ।
 
५५ न्या० को●