This page has not been fully proofread.

इत्यादौ । यथा वा द्रव्यं निरूपयतीत्यादौ निरूपयत्यर्थः । अत्र तादृश-
विशिष्टैकार्थस्य धात्वर्थस्व एकदेशे ज्ञानांशे द्रव्यस्य द्वितीयार्थविषयता-
निरूपितविषयितयान्वयः ( ग० न्यु० का ० २ १० ४६ ) । तथा च
द्रव्यविषयकज्ञानानुकूलशब्दप्रयोगकर्ता इति बोधः । यथा वा अथ
हेत्वाभासास्त त्वनिर्णयप्रयोजकत्वानिरूप्यन्ते ( चि० २) इत्यादौ ।
अत्रेदं बोध्यम् । निरूपण प्रतिज्ञाफलं तु शिष्यावधान मेवेति ( म०प्र० ३
पृ० ३३) । २ विचारः । ३ निदर्शनम् । ४ आलोकः इति काव्यज्ञा
आहुः ( वाच० ) ।
 
S
 
निरूपितत्वम् – स्वरूपसंबन्धविशेषः । यथा राज्ञः पुरुष इत्यादौ पुरुषनिष्ठ-
स्वत्वे राजनिष्ठस्वामित्वनिरूपितत्वम् । शिष्टं तु निरूपकत्वशब्दे द्रष्टव्यम् ।
 
निरूप्यत्वम् – निरूपितत्वम् ।
 
-
 
निरोघः - चित्तस्याबस्थाविशेषः । निरुध्यन्तेस्मिन्प्राणाद्याश्चित्तवृत्तयः इति
व्युत्पत्तेः ( सर्व० सं० पृ० ३६५ पातञ्ज ० ) ।
 
-
 
निर्गम: – पुत्र्युद्वाहस्तु निर्गमः (पु० चि० ० ४५०)।
निर्जर: आस्रवः कर्मणां बन्धो निर्जरस्तद्वियोजनम् ( आर्हतदर्शनम्) ।
निर्जरा - [क] अर्जितस्य कर्मणस्तपःप्रभृतिमिर्निर्जरणं निर्जराख्यं
तत्त्वम् ( सर्व० पृ० ८० आई० ) । [ख ] यत्कर्म तपोबलात्स्वकाम-
नयोदयावलिं प्रवेश्य प्रपद्यते तत्कर्म निर्जरा । यदाह संसारबीजभू-
तानां कर्मणां जरणादिह । निर्जरा संमता द्वेधा सकामाकामनिर्जरा ॥ स्मृता
सकामा यमिनामकामा त्यन्यदेहिनाम् इति ( सर्व० सं० पृ० ८० आई० ) ।
निर्णयः – १ [ क ] तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् ( गौ० वृ०
 

 
१।११४१ ) ( त० भा० पृ० ४४ ) । यथा घटे अयं घटः इति ज्ञानम् ।
अत्रोच्यते । निर्णयो विशेषदर्शनजमवधारणम् संशयविरोधि । तत्
द्विविधम् । प्रत्यक्षम् अनुमानं च । तत्राद्यं यथा स्थाणुपुरुषयोरूर्ध्वता-
मात्रसादृश्यालोचनाद्विशेषेषु प्रत्यक्षेषूभयविशेषानुस्मरणात् किमयं स्थाणुः