This page has not been fully proofread.

न्यायकोशः ।
 
४३१
 
वक्तुरिच्छा तद्विषयीभूतो योर्थः तनिष्ठा शक्यसंबन्धरूपा लक्षणा इति ।
यथा रथो गच्छतीत्यादौ तिबाख्यातस्याश्रयत्वे निरूढलक्षणा (दि० ४
पृ० १७५ ) । यथा वा कर्मणि कुशल इत्यादौ । अत्र कुशांल्लाति इति
व्युत्पस्या कुशलपदं दर्भादानकर्तरि यौगिकम् । विवेचकत्वसारूप्या-
प्रवीणे वर्तमान मनादिवृद्धव्यवहारपरंपरानुपातित्वेनाभिधानवव्ययोजन-
मनपेक्ष्य प्रवर्तते ( सर्व० पृ० ३७३ पात ० ) । [ख ] लक्ष्यताव-
च्छेदकीभूततत्तद्रूपेण पूर्वपूर्व प्रत्यायकत्वानिरूढा । यथा अरुणया
पिङ्गाक्ष्या एकहायन्या ( गवा ) सोमं क्रीणाति इत्यादाबारुण्यादिप्रकारेण
तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य आरुण्ये निरूढलक्षणा ( श०
प्र० श्लो० २४ टी० पृ० ३१ ) ( लौ० भा० पृ० १७-१८) ।
[ग] केचित्तु ( शाब्दिकादयः ) व्याकरणकोशादिहेतुतः प्रसिद्धार्थे
शक्तितुल्या लक्षणारूपा शब्दस्यार्थबोधनशक्तिः इत्यादु (वाच०) । [घ ]
निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् ( सर्व० पृ० ३७४ पात ० ) ।
निरूढिः - १ निरूढलक्षणा । २ काव्यज्ञास्तु प्रसिद्धिः । यथा चतसृष्वपि
ते विवेकिनी नृप विद्यासु निरूढिमागता (किरात० स० २ श्लो० ४ )
इत्यादावित्याहुः ।
 

 
निरूपकत्वम्
– १ स्वरूपसंबन्ध विशेषः । यथा दण्डो घटस्य कारणम्
इत्यादौ घटनिष्ठकार्यतानिरूपकत्वं दण्डनिष्ठकारणतायाम् । यथा वा
भूतले घटः इत्यादौ भूतलनिष्ठाया आधारताया निरूपकत्वं घटनिष्ठा-
धेयत्वे । यथा वा घटस्य ज्ञानम् इत्यादौ ज्ञाने घटनिष्ठविषयता निरूपक-
त्वम् । एवमन्यत्रापि निरूप्यनिरूपकभावो ज्ञेयः । अत्रायं नियमः यन्त्रि-
रूपितं यद्भवति तन्निरूपकं तत् इति । २ तज्ज्ञानजनकज्ञान विषयत्वम्
( ग० अव० हेतु ० ) । यथा वृक्षाद्विभजेत इत्यादौ विभागस्य वृक्ष-
निष्ठावधितानिरूपकत्वम् । ३ प्रतियोगित्वम् इति केचिदाहुः ।
निरूपणम् – १ ज्ञानानुकूलशब्दः । लक्षणस्वरूपप्रामाण्यादिप्रकारकचाना-
नुकूलव्यापारः इति फलितोर्थः ( त० प्र० ख० ४ पृ० ३ ) ( दायभा०
श्रीकृष्ण ●
To ) । यथा अथ शब्दो निरूप्यते ( न्या० म० ४ पृ० १ )