This page has not been fully proofread.

४३०
 
न्यायकोशः ।
 
यथा प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः (भा० उ० अ० ३५ )
इत्थं जन्म निरर्थकं क्षितितलेरण्ये यथा मालती ( सा० द० ) इत्यादौ
इति काव्यज्ञा आहुः ( वाच० ) ।
 
निराकाङ्क्षम् – अनाकाङ्क्षम् । शाब्दबोधोपयोग्याकाङ्क्षाशून्यमिति यावत् ।
यथा तेषां वाक्यं निराकाम् ( काव्या० श्रौ० १।३।२) इत्यादौ ।
 

 
-
 
निरिष्टक: - पुनः प्रयोगार्ह इत्यर्थः । इष्टान्निर्गतो निरिष्टः । कुत्सितो
निरिष्टो निरिष्टकः इति व्युत्पत्तेः । यथा भोजन उपयुक्तं कदलीपर्णे
प्रक्षाल्यापि न पुनस्तच्छिष्टाः स्वीकुर्वन्ति ( जै० न्या० अ० ११
पा० ३ अधि० १२) ।
 
-
 
निरुद्धम् – निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धमिति भण्यते
( सर्व० सं० पृ० ३५६ पातञ्ज० ) ।
 
निरुपाख्यम् – [क] निःस्वरूपम् ( रत्नप्रभा० ) । [ख] प्रमाण-
मात्राविषयोसत्पदार्थः । यथा वन्ध्यापुत्रशशशङ्ग कूर्मरोमादि । इदमेवा-
लीकमित्युच्यते । तुच्छमिति वेदान्तिमिरुच्यते । अभावपदार्थ इति
केचिदाहुः ।
 
निरूढः – १ शक्तितुल्यलक्षणयार्थबोधकः शब्दः । यथा पूर्वद्रव्यस्वामि-
संबन्धाधीनं तत्वाम्युपरमे यत्र द्रव्येन्यस्वत्वम् तत्र निरूढो दायशब्दः
इति जीमूतवाहनेनोक्तो निरूढशब्दः ( वीरमित्रो० अ० २ दायभाग
पृ० ५२२ ) । २ धर्मज्ञास्तु पशुयागविशेषः । यथा निर्मित ऐन्द्राग्नः
आव० श्रौ० ३।८४ ) ऐन्द्रानो निरूढो नाम पशुः कर्तव्यः इत्यादौ
इत्याहु: ( वाच० ) ।
 
निरूढलक्षणा-( लक्षणा ) [ क ] अनादितात्पर्य विषयी भूतार्थनिष्ठा
लक्षणा ( त० प्र० ख० १ पृ० ४३ ) ( ग० व्यु० का० १ ) ।
अत्र तात्पर्येनादित्वं च स्वज्ञानजन्यशाब्दबोषध्वंसकालीनस्वज्ञानजन्य-
शाब्दबोधसामान्यकत्वम् ( कृष्णं ० ) । तदन्वयश्च अनादितात्पर्ये