This page has not been fully proofread.

न्यायकोचः ।
 
४२९
 
इत्यादौ । ६ निश्चितम् । यथा निश्चितमित्यादौ ( गणरत्र ) ।
७ निषेधः । यथा निर्मक्षिकम् इत्यादौ । अयं शब्दः प्रादिः सान्तो
रान्तश्चेति विज्ञेयम् (वाच० ) ।
 
निरनुयोज्यानुयोगः– (निग्रहस्थानम् ) [ क ] अनिग्रहस्थाने निग्रह-
स्थानामियोगो निरनुयोज्यानुयोगः ( गौ० ५१२१२२ ) । निग्रहस्थान-
लक्षणस्य मिथ्याभ्यवसायादनिग्रहस्थाने निगृहीतोसीति परं ब्रुवनिरनु-
योज्यानुयोगान्निगृहीतो वेदितव्य इति ( वात्स्या० ५।२।२२ ) । अवसरे
यथार्थनिग्रहस्थानोद्भावनातिरिक्तं यन्निग्रहस्थानोद्भावनं तत् इत्यर्थः । एतेन
अवसरे निग्रहस्थानोद्भावने एकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावने च
नातिव्याप्तिः (गौ०दृ० ५।२।२२) । [ख] निग्रहस्थानरहिते निग्रहस्थानो-
द्भावनम् (नील० पृ० ४६ ) । सोयं चतुर्धा । छलम् जाति: आभासः
अनवसरग्रहणं च ( गौ० दृ० ५।२।२२ ) ( दि० १ ) ( ता० २०
परि० ३ श्लो० १५१ ) ( सा० सं० पृ० ११७ ) ।
 
निरर्थकम् – १ ( निग्रहस्थानम् ) अस्य संभवः प्रमादात् इत्यवधेयम्
( गौ० दृ० ५२१८ ) । [क] वर्णक्रमनिर्देशवन्निरर्थकम् ( गौ०
५१२१८ ) । तदर्थश्च वर्णानां क्रमेण निर्देशो जबगडेत्यादिप्रयोगः
तत्तुल्यो निर्देशः इति ( गौ० वृ० ५२२१८ ) । यथा नित्यः शब्दः
कचटतपाः जबगडदश्त्वात् झभञ्घढषष्वत् इति । एवंप्रकारं निरर्थ-
कम् । अभिधानामिधेयभावानुपपत्तावर्थगतेरभावाद्वर्णा एम क्रमेण
निर्दिश्यन्त इति (वात्स्या० ५१२१८ ) । [ ख ] समयबन्धव्यतिरेकेणा-
वाचकपदप्रयोगः (गौ० दृ० ५/२१८) ( दि० १) । समयबन्ध-
व्यतिरेकेणेति विशेषणदानेन यत्र अपभ्रंशेन विचारः कर्तव्यः इति
समयबन्धस्तत्रापअंशे न दोषः । अत्र वाचकत्वं शक्त्या निरूढलक्षणया
शास्त्रपरिभाषया वा बोध्यम् ( गौ० १०५/२१८) । [ग] अना-
चकशब्दप्रयोगः ः । यथा शब्दो नित्यः जबगडदत्वात् इत्यादि ( नील०
१० ४५ ) । २ काव्यदोषविशेषः इत्यालंकारिका आहुः । अत्रोच्यते
निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् इति ( चन्द्रा० ) । ३ निष्फलम् ।