This page has not been fully proofread.

४२८
 
न्यायकोचः ।
 
नियामकत्वम् – १ प्रयोजकत्वम् । २ नियमकारकत्वम् । यथा कारणस्य
कार्य प्रति नियामकत्वम् इत्यत्रादृष्टकालादेः कार्यमात्रं प्रति नियामकत्वम् ।
३ निरासकत्वम् । यथा लोकप्रसिद्धमेवैतद्वारि वहेर्नियामकम् ( कामन्द ० )
इत्यादौ ( वाच० ) ।
 
नियोगः-१ [क] एवं कुरु इत्याज्ञा ( कि० ब० ६ ) । यथा पुत्रो-
त्पादनाय विधवाया नियोजनम् । अत्रोच्यते । उक्तो नियोगो मनुना
निषिद्धः स्वयमेव हि इति ( बृहस्पतिः ) । तथा हि नान्यस्मिन् विधवा
नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः
सनातनम् ॥ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित् । न विवाह-
विधावुक्तं विधवावेदनं पुनः ॥ इति ( मनु० अ० ९ श्लो० ६४-६५ ) ।
[ख] प्रेरणम् । [ग] इष्टसाधनत्वादिबोधनेन प्रवर्तनम् । [घ ]
केचित्तु प्रवर्तकज्ञानोपधायकतानिर्वाहकव्यापारः । यथा स्वर्गकामो यजेत
इत्यादी योग्यतया नियोगो बोध्यत इत्याहुः ( वाच० ) । २ अवधार
णम् । यथा तत्सिषेवे नियोगेन स विकल्पपराड्युख: ( रघु० स० १७
लो०
१० ४९ ) इत्यादौ । अत्र कौटिल्यः अनेनैवोपायेन नान्येन इति
नियोगः इति ( रघु० टी० १७४९)।
 
नियोजकत्वम् – तत्कामिकृतिसाध्यतया प्रतीयमानत्वम् ( न्या० म० ४
पृ० ६३ ) । यथा प्राभाकरमते विध्यर्थस्या पूर्वात्मकस्य कार्यस्य नियो
जकत्वम् ( त० प्र० ख० ४ पृ० १११) ।
 
नियोज्यत्वम् – [ क ] प्रवर्तनीयत्वम् । तच्च प्रवर्तनाकर्मत्वम् । प्रवर्तना-
कर्मत्वं तज्जन्यप्रवृत्तिमत्त्वम् ( वाच० ) । यथा स्वर्गकामो यजेत इत्यादौ
स्वर्गकामो यागे नियोज्यः (चि० ४ ) । [ ख ] केचित्तु प्रवर्तकशानो-
पधायकत्वम् इत्याहु: ( वाच० ) ।
 
निर् ( अव्ययम् ) १ वियोगः । यथा निःसङ्ग इत्यादौ । २ अव्ययः ।
यथा निर्मेघम् इत्यादौ । ३ आदेशः । यथा निर्देशः इत्यादौ ।
४ अतिक्रमः । यथा निष्क्रान्तः इत्यादौ । ५ भोगः । यथा निर्वेशः