2023-02-20 00:55:29 by ambuda-bot
This page has not been fully proofread.
४२६
न्यायकोशः ।
निमेषः लष्वक्षरसमा मात्रा निमेषः परिकीर्तितः (अहोरात्रशन्दे दृश्यम्) ।
नियतत्वम् – १ व्यापकत्वम् । यथा नियतसामानाधिकरण्यं व्याप्तिः
इत्यादौ बहेर्धूमध्यापकत्वम् ( न्या० बो० २ पृ० १४ ) ( नील० २
पृ० २० ) । यथा वा अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता ।
कारणत्वं भवेत् ( भा० प० श्लो० १६ ) इत्यत्र कारणभूतदण्डादिगत-
पूर्ववृत्तित्वस्य घटादिकार्यनियतत्वम् । अत्र सामानाधिकरण्यसंबन्धेन यत्र
दण्डादौ कार्यं तत्र स्वरूपसंबन्धेन पूर्ववृत्तित्वम् इति रीत्या व्याप्तेः सत्त्वेन
पूर्ववृत्तित्वस्य व्यापकत्वं बोध्यम् । २ नियमयुक्तत्वम् इति योगिन आहुः ।
नियमः – १ [ क ] तद्वदन्यावृत्तित्वम् । व्याप्तिरिति यावत् ( ग०
सिद्धा० ) । यथा कार्ये कारणनियमः इत्यत्र कार्ये कारणवदन्यावृत्तित्व-
रूपो नियमः । यथा घूमे वह्निमदन्यावृत्तित्वम् । [ ख ] व्याप्यत्वम्
( ग० सत्प्र० पृ० २२ ) । यथा स्वसाध्यविपरीतेनानियमात् ( चि० २
सत्प्र० पृ० ९७ ) इत्यादौ । [ग] तन्मात्रसत्त्वम् । यथा साहचर्य-
नियमः इत्यादौ ( वाक्य ० २ पृ० १३) । अत्रायमर्थः । साहचर्य
साध्यनिष्ठहेतुसामानाधिकरण्यम् । तन्नियमः तन्मात्रसत्त्वम् । तद्विरोष्य
सत्त्वमिति यावत् । विरोधि च हेतुसमानाधिकरणाभावप्रतियोगित्वम् ।
यादृशवहेर्यादृशधूमसाहचर्ये तस्मिन्न तदव्यापकत्वम् इति विरोधः ।
अनुगतैकव्यक्तौ तु एकाधिकरणावच्छेदेना सत्त्वम् विरोधः इति ( वाक्य ० २
पृ० १३) । २ व्यापकत्वम् । ३ धर्मज्ञास्तु प्रत्यवायजनकी भूताभाव-
प्रतियोगित्वम् । अयोगव्यवच्छेद इति पर्यवसितोर्थः । यथा ऋतौ
स्वदारानुपेयादित्यादौ लिडर्थः इत्याहुः । अत्र नियमार्यैकदेशे अभाव
ऋत्वादिकालस्यावच्छेदकत्वेनान्वयात् ऋतुकालावच्छेद्यत्वविशिष्टस्य प्रत्य-
बायजनकी भूताभावस्य प्रतियोगि स्वदारगमनम् इत्याकारको बोधः ।
यद्वा प्रत्यवायहेतुत्वम् अभावश्च द्वयं तत्र लिङर्थः । तेन प्रतियोगिविधया
धात्वर्थस्यावच्छेद्यत्वेन च कालस्यान्वयिन्यभावे लिङा प्रत्यवायहेतुत्वस्य
बोधनात् ऋतुकालावच्छेद्यः स्खदारगमनाभावः प्रत्यवायहेतुः इत्याकार
एव तत्र बोध: ( श० प्र० श्लो० १०० टी० पृ० १५८) ।
-