This page has not been fully proofread.

834
 
वार्तिके निमित्तं फलम् इत्याहु: ( सि० कौ० ) । ५ शरव्यम् इति
काव्यज्ञा आहुः ( वाच० ) ।
 
Cate
 
निमित्तत्वम् - १ [ क ] क्रियाजनिका या विनियोज्यत्वेनेच्छा तद्विषय-
त्वम् । यथा चर्मणि द्वीपिनं हन्तीत्यादौ चर्मादीनां निमित्तत्वम् ( गदा०
व्यु० कार० ७ पृ० ११६ ) । अत्र विनियोज्यत्वेनेच्छा च इदं चर्म
हननेन मम प्राप्यताम् इति प्राप्यत्वप्रकारकेच्छा । तथा च चर्मणि
द्वीपिनं हन्तीत्यादौ हननादिक्रियाजनिका या विनियोज्यत्वेनेच्छा तद्वि-
षयत्वं चर्मादौ निमित्तत्वम् इति विज्ञेयम् । समुदितश्लोकस्तु चर्मणि
द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि
पुष्कलको हतः ॥ इति ( सि० कौ० ) । सीमा अण्डकोशः । पुष्क-
लको गन्धमृगः । अत्र निमित्तात्कर्मयोगे ( वार्तिकम् ) इत्यनेन सप्तमी
यत्किंचित्कर्मप्रकारकबोधजनकधातुयोगे प्रयुज्यते । तदर्थश्च द्वीप्यादि-
रूपकर्मयोगे निमित्ताञ्च र्मादिरूपात्सप्तमी । निमित्तं हि फलम् । योगस्तु
संयोगः समवायो वेति । इयं सप्तमी प्रकृत्यर्थचर्मादेईननादिक्रिया-
निमित्तत्वं बोधयति । तथा च सप्तम्यर्थः स्वविषयकतादृशेच्छाचीनत्वम् ।
तस्य क्रियायामन्वयः । तदेकदेशविषयितायां निरूपकत्वेन प्रकृत्यर्थस्या-
न्वयः ( ग० व्यु० का० ७ पृ० ११६ ) ( का० व्या० पृ० ११) ।
स्वपदार्थश्चर्म । एवं च चर्मादिविषयकेच्छाघीना या व्याघ्रकर्मिका हनन-
क्रिया तत्कर्ता इति वाक्यार्थबोधः । [ख] फलत्वेनेच्छाविषयत्वम् ।
यथा चर्मणि द्वीपिनं हन्तीत्यादौ सप्तम्यर्थः । अत्रायं विशेषो ज्ञेयः । चर्मा-
त्मकफलस्य सिद्धतया स्वरूपफलवत्वेनैवेच्छा प्रयोज्यत्वेन धात्वर्थेन्वेति ।
तथा च चर्मप्रकारकेच्छाप्रयोज्यद्वीपिहननानुकूलकृतिमान् इति बोधः
इति ( का० व्या० पृ० ११ ) । [ग] शाब्दिकास्तु फलत्वम्
उद्देश्यत्वं वा निमित्तत्वम् । यथा निमित्तात्कर्मयोगे इत्यादौ इत्याहुः ।
२ फलत्वेनेच्छा । यथा मशकनिवृत्तौ घूमं करोतीत्यादौ सप्तम्यर्थः ।
अत्र मशकनिवृत्तिः फलम् । सप्तम्यर्थस्य मशकनिवृत्तीच्छायाः प्रयोज्यत्व-
संबन्धेन करोतीत्यर्थेन्वयः । तथा च मशकनिवृत्तीच्छाप्रयोज्यधूमकरणा-
श्रयः इति बोध: ( का० व्या० पृ० ११ ) ।
 
५४ न्या० को०