2023-02-20 00:55:27 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
४२३
३ परिगणितं द्रव्यम् । यथा भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा
( याज्ञ० अ० २ लो० १२४) इत्यादौ इति व्यवहारज्ञा आहुः ।
अत्र मिताक्षरा निबन्ध: एकस्य पर्णभारकस्येयन्ति पर्णानि तथा एकस्य
क्रमुकफलभारकस्येयन्ति क्रमुकफलानि इत्याद्युक्तलक्षण: ( याज्ञ० मि० २
लो० १२४ ) इति । ४ मूत्ररोधरूपो रोगविशेषः इति भिषजः ।
५ बन्धनम् ६ ग्रन्थः ग्रन्थविशेषश्च ।
निबन्धनम् – १ [ क ] प्रयुक्तम् । यथा वातादिनिबन्धनं दुःखमित्यादौ ।
[ ख ] जन्यम् । २ हेतुभूतम् । अत्रार्थे व्युत्पत्तिर्द्रष्टव्या निबध्यतेनेनात्र
वा इति । ३ वीणायास्तन्त्रीनिबन्धनमूर्ध्वभागः इति गायका भाडुः
( वाच० ) ।
निमश्रणम् – आवश्यके कर्मणि श्राद्धभोजनादौ प्रवर्तकं वाक्यम् । यथा
ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ( याज्ञ० २।२६३ ) इति ।
निमन्त्रयेत पूर्वेधुर्ब्राह्मणानात्मवाञ्छुचिः ( याज्ञ० १।२२५ ) इति
च । तच्च निमन्त्रणम् भषतात्र भोक्तव्यम् इत्यादि वाक्यम् ( श०
प्र० श्लो० १०० टी० पृ० १५५) । अत्रोच्यते यस्याकरणे
प्रत्यवायस्तत् निमन्त्रणम् इति । एतच्च नित्यम् । अत्र नित्यत्वं च
प्रत्यवायसाधनीभूताभावप्रतियोगित्वम् ( वाच० ) । यथा वा निमन्त्र-
णार्थे दूतांश्च प्रेषयामास शीघ्रगान् ( भार० व० अ० २२५)
इत्यादौ ( वाच० ) ।
O
निमन्त्रितत्वम् – स्वकर्तव्यत्वप्रकारकधीजन कमप्रत्याख्येयं यद्वाक्यम् तत्प्रति-
-
पाद्यत्वम् । यथा श्राद्धे भुञ्जीत भवान् इद्द भुञ्जीथास्त्वम् इत्यादौ श्राद्धे
भोजनाय निमन्त्रितो भवान् इत्यनुभवान्निमन्त्रितत्वं लिङर्थः । अत्र
स्वपदं निरुक्त प्रतिपाद्यत्वाभिमतभवदादिपरम् । अप्रत्याख्येयत्वं च प्रत्यवाय-
जनकप्रत्याख्यानकत्वम् । तादृशधीजनकवाक्यं च भवतात्र भोक्तव्यम्
इत्यादिकं निमन्त्रणरूपम् । तत्प्रतिपाद्यो भवदादिः इति ज्ञेयम् । श्राद्ध-
मुपक्रम्य अनिन्दितेनामश्रितो नापगच्छेत् इति श्रुतेः सवेन तत्प्रत्या-
ख्याने दोषः इति ज्ञेयम् । अन्न यस्य प्रत्याख्याने प्रत्यवायः तन्निमन्त्रणम्