This page has not been fully proofread.

४१२
 
न्यायकोशः ।
 
भिन्नः स तादृशार्थे भेदेनान्वयबोधं प्रति योग्ये निपातः । निपतत्यर्थेवूचा-
बचेषु इति निपातः (निरुते ) । कर्तरि ज्वलादि० णः ( पाणि० सू०
३।१।१४० ) । नानाविधार्थेषु वृत्या स्वार्थबोधकतया पतनशील इत्यर्थः
( वाच० ) । यथा चादयो निपाताः स्वार्थे समुच्चयादौ नामाद्यर्थस्याभे
देनान्वयबोधं प्रत्ययोग्याः । अत्र विप्रतिपत्तिः चादयो निपाताः सार्थका
वाचकत्वात् । प्रादय उपसर्गा एव द्योतकाः इति नैयायिका आहुः ।
प्रादय उपसर्गा इव चादयो निपाता अपि द्योतका एव इति शाब्दिका
मेनिरे ( वै० सा० निपा० पृ० ३३८) । अत्र के चिच्छाब्दिका
नागोजीभट्टादयः उपसर्गातिरिक्तनिपातानां द्योतकत्ववाचकत्वोभयस्वीकारः
इति अव्ययं विभक्तिसमीप (पा० सू० २।१।६) इति सूत्रस्थभाष्ये स्पष्टम्
इत्याहुः ( वाच० ) । स चायं निपातः च तु नञ् पुनः इव एव मा
स्म इत्यादिभेदाद्बहुविधः ( श० प्र० श्लो० १० टी० पृ० १२ ) । अत्र
निपातत्वं च असत्त्वार्थकत्वे सति चादिगणपठितत्वम् इति शाब्दिका
आहुः । नैयायिकास्तु शक्तिसंबन्धेन निपातपदवत्त्वम् इत्याहुः (वै० O
सा० निपा० पृ० ३३५ ) ।
 
निपातनम् – ( शब्दः ) [ क ] अन्यथा प्राप्तस्यान्यथोच्चारणं निपातनम् ।
[ख] शास्त्रान्तराप्राप्तकार्यघटितोच्चारणवत् शब्दस्वरूपम् । [ग]
वर्णागमादिना अन्यथोत्पद्यमानः सूत्रानिष्पाद्यः शब्दविशेषो निपातः ।
यथा हंस सिंह इत्यादिशब्दः । तदुक्तम् भवेद्वर्णागमाद्धंसः सिंहो वर्ण-
विपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ॥ इति (सि० कौ० ) ।
वर्णागमादिप्रकारश्च स्मर्यते । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्ण-
विकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥
इति ( सारस्वत० ) । अत्रार्थे व्युत्पत्तिः निपतति स्वावयववर्णविनाशा-
दिनान्यथा निष्पद्यते इति निपातः (कर्तरि ज्वलादि ० णः) ( वाच० ) ।
निबन्ध: - १ एकग्रन्थोपनिबन्धनम् । यथा प्रमाणप्रमेययोर्न्यायदर्शने
निबन्धनम् ( गौ० वृ० ३।२।४२ ) । २ कालविशेषे देयत्वेन प्रतिश्रुतं
वस्तु । यथा दद्याद्भूमिं निबन्धं वा कृत्वा लेख्यं च लेखयेत् इत्यादौ ।